________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३० अध्यायः] चिकित्सितस्थानम् । ३४६५
ब्राह्मामामलकोयञ्च पैत्ते शस्तं विरेचनम् । मागध्यमृतलौहानां त्रिफलाया रसायनम् ॥ कफोद्भवं शुक्रदोषं हन्याद् भल्लातकस्य च। अन्यधातूपसंस्पृष्टं शुक्र वीक्ष्य भिषक् क्रियाम् ॥ यथादोषं प्रयुञ्जोत दोषधातुभिषगजितम् । सर्पिःपयोरसाः शालि-यवगोधूमषष्टिकाः ॥ प्रशस्ताः शुक्रदोषेषु वस्तिकर्म विशेषतः। इत्यष्टशुक्रदोषाणां मुनिनोक्तं चिकित्सितम् ॥ ६२ ॥ रेतोदोषोद्भवं क्लैव्यं यस्माच्छुद्धैश्व सिध्यति । अतो वक्ष्यामि ते सम्यगग्निवेश यथायथम् ॥ वीजध्वजोपघाताभ्यां जरया शुक्रसंक्षयात् ।
क्लैव्यं सम्पद्यते तस्य शृणु सामान्यलक्षणम् ॥ ६३॥ ब्राह्मा रसायनमुक्तम्, अभयामलकीयञ्च रसायनम्। पैत्ते शुक्रे विवण पूतिगन्धिान विरेचनं शस्तम् । मागधीत्यादि। मागध्याः पिप्पल्या रसायनं पिप्पलीवर्द्धमानम् अमृतलौहममृतसारलौहं तन्त्रान्तरोक्तं त्रिफलारसायनश्च । कफेत्यादि। भल्लातकस्य रसायनमुक्तं कफोद्भवमत्यर्थपिच्छिलं हन्यात् । अन्येत्यादि। अन्यधातूपसंसृष्टं वातादिदुष्टं भवति तत्र वातादिलक्षणं शुक्र वीक्ष्य यथादोषं स्निग्धोष्णस्निग्धशीतरूक्षोष्णादिकां क्रियां प्रयुञ्जीत, यथादोषं यथाधातु भिषगजितञ्च योज्यम् । सपिरित्यादि । रसा मांसानाम् ॥६२ ॥
गङ्गाधरः-इति शुक्रदोषलिङ्गादिकमुक्त्वा क्लव्यानाह-रेतोदोषेत्यादि । यस्माद्रेतोदोषोद्भवं क्लव्यं शुद्धया विरेचनादिनैव शुध्यति, अतो यथायथं क्लेव्यं ते वक्ष्यामि। वीजेत्यादि। वीजोपघातादष्टविधशुक्रदोषाद एक क्लैव्यम्, ध्वजोपघातात् शिश्नोपघाताद द्वितीयम्, तृतीयं जरया वार्धक्येन, शुक्रक्षयाचतुर्थम्, तस्य चतुर्विधक्लैव्यस्य सामान्यलक्षणं शृणु ॥३॥ चक्रपाणिः-मागध्यमृतेत्यादौ मागधी पिप्पली। अमृतलौहममृतसारलौहम्। भल्लातक
४३७
For Private and Personal Use Only