________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चा
३०श अध्यायः] चिकित्सितस्थानम्। ३४८३
चिन्ताशोकादविसम्भाच्छस्त्रक्षाराग्निविभ्रमात् । भयात् क्रोधादतीसाराद व्याधिभिः कर्षितस्य च ॥ वेगाघातात् क्षताच्चापि धातूनां संप्रदूषणात् । दोषाः पृथक् समस्ता वा प्राप्य रेतोवहाः सिराः। शुक्र सन्दूषयन्त्याशु तद वक्ष्यामि विभागतः ॥ ५७ ।। फेनिलं तनु रूक्षश्च विवर्ण पूति पिच्छिलम् । अन्यधातूपसंसृष्टमवसादि तथाष्टमम् ॥ ५८ ॥ फेनिलं तनु रूक्षश्च कृच्छ्णाल्पञ्च मारुतात् । भवत्युपहतं शुक्र न तद् गर्भाय कल्पते ॥ सनीलमथवा पीतमत्युष्णं पूतिगन्धि वा। दहल्लिङ्ग विनिर्याति शुक्र पित्तेन दूषितम् ॥
श्लेष्मणा रुद्धमागेन्तु भवत्यत्यर्थपिच्छिलम् ॥ गच्छेतः पु सः, नारीणां रसवाभावात् सरणात् गमनात्। जरया हेतुना। अविसम्भात् प्रकाशस्थानात् । पृथगदोषाः रेतोवहाः सिराः प्राप्य शुक्र सन्दूषयन्ति ॥५७॥
गङ्गाधरः-फेनिलमित्यादि। रूक्षमिति यच्छुष्कमुक्तं तत् । विवर्णमित्यश्वेतमुक्तं यत् तत् ।। ५८॥
गङ्गाधरः-तेषु दोषनियममाह-फेनिलमित्यादि। कृच्छणाल्पमवसादि नाम, चखाय्यतानि वाताद् भवन्ति। वातोपहतं तत्तच्छकं न गर्भाय कल्पते। सनीलमित्यादि। सनीलमथवा पीतमित्येवं विवर्ण यच्छुकं विनिर्याति अत्युष्णं पूतिगन्धि वा यच्छुकं लिङ्गं दहद विनिर्याति तत् पित्तेन दूषितं शुक्रं भवति। श्लेष्मणेत्यादिना पिच्छिलस्य लक्षणम् । चितमैथुनकाले। मैथुनागमनं शुक्रवेगप्रतीघातादेव दर्शयति-अविनम्भादिति अविश्वासात् । बल्यामीति दृष्टं शुक्र वक्ष्यामि ॥ ५३-५७ ॥
For Private and Personal Use Only