________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४८२
चरक-संहिता। योनिब्यापश्चिकित्सितम् तेषां निदानं लिङ्गञ्च चिकित्साञ्चैव तत्वतः । समासब्यासभेदेन ब्रूहि नो भिषजां वर ॥ ५४॥ तस्मै शुश्रूषमाणाय प्रोवाच मुनिपुङ्गवः। वीजं यस्माद् व्यवायेषु हर्षयोनिसमुत्थितम् । शुक्र पौरुषमित्युक्तं तस्माद् वक्ष्यामि तच्छृणु ॥ ५५ ॥ यथा वीजमकालाम्बु-क्रिमिकोटाग्निदूषितम्।। न विरोहति संदुष्टं तथा शुक्र शरीरिणाम् ॥ ५६ ॥ अतिव्यवायाद् व्यायामादसात्म्यानाश्च सेवनात् । अकाले वाप्ययोनो वा मैथुनं न च गच्छतः ॥ रूक्षतिक्तकषायाति-लवणाम्लोषणसेवनात् ।
नारीणामरसज्ञत्वात् सरणाजरया तथा ॥ सामष्टौ शुक्रदोषा अशेषतस्त्वया समुद्दिष्टाः। तेषां शुक्रदोषाणां पृथक हेखादीनि, तथा चतुर्विधं क्लैव्यं यच तत्रैवाध्याये चखारि क्लैव्यानीत्युद्दश्यनिर्देशः कृतश्चखारि क्लैव्यानीति वीजोपघातात् ध्वजभङ्गात् जरायाः शुक्रक्षयाच्चति। यदुक्तं तेषां निदानादोनि य इह योनिव्यापदामुपद्रवेषु यः प्रदर उक्त. स्तेषां निदानादीनि तत्त्वतः समासव्यासाभ्यां ब्रहीति अमिवेशः पप्रच्छ॥५४॥
गङ्गाधरः-तस्मा इत्यादि। यस्माद्धेतोः पौरुषं शुक्र हर्षयोनिसमुत्थितं हषात् कामोद्रेकात् योनितः शुक्रस्याकरतः समुत्थितं व्यवायेषु वीजमित्युक्तं तस्मात् तद् वक्ष्यामि खश्च शृण॥५५॥ - गङ्गाधरः-यथेत्यादि। धान्यादीनां वीजं यथा खल्वकालवर्षादिभिर्दूषितं न विरोहति, तथा शरीरिणां दुष्टं शुक्रं न विरोहति ॥५६॥
गङ्गाधरः-तस्य दुष्टिकारणानि चाह-अतिव्यवायादित्यादि । असात्म्यानां सेवनात् । अकाले मैथुनं गच्छतः अयोनौ वा मैथुनं गच्छतः। मथुनं न च तु पठन्ति ते पूर्वोक्तसंक्षपस्य विरतराभिधानादिति वर्णयन्ति। एवमस्यार्थस्य विवाढेऽपि काश्मीरादिदेशानुमतत्वात् किञ्चित् व्याकरणं कुर्म एव। शुक्रगुणोपवर्णने हेतुमाह-वीज यस्मादित्यादि। यस्माद वीजभूतं गर्भस्य शुक्रं तस्माद् वक्ष्यामि। व्यवायेषु हर्षयोनिः तस्माइस्थितं पौरुषमिति पुरुषचिवम्। शुक्रेणैव हि पुरुष उच्यते। मथुनं न च गच्छत इति
For Private and Personal Use Only