________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिकित्सितस्थानम् । ३४ पञ्चकर्मविशुद्धस्य पुरुषस्यापि चेन्द्रियम् । परीक्ष्य वर्णदोषाणां दुष्टिघ्नस्तमुपाचरेत् ॥ ५२ ॥
भवति चात्र। सलिङ्गा व्यापदो योनेः सनिदानचिकित्सिताः। उक्ता विस्तरतः सम्यङ् मुनिना तत्वदर्शिना ॥ ५३॥ पुनरेवाग्निवेशस्तु पप्रच्छ भिषजां वरम् । आत्रयमुपसङ्गम्य शुक्रदोषास्त्वयानघ ॥ रोगाध्याये समुदिष्टास्त्वष्टौ पुंसामशेषतः। तेषां हेतुं पृथक् श्रेष्ठ दुष्टादुष्टस्य चाकृतिम् ॥ चिकित्सितश्च कान्येन क्लैव्यं यच्च चतुर्विधम् । उपद्रवेषु योनीनां प्रदरो यश्च कीर्तितः॥
दुष्टं स्यात् तर्हि किं कत्तव्यमित्यत उच्यते। पञ्चेत्यादि । पुरुषस्यापि चेन्द्रिय शुक्रं वर्णः परीक्ष्य यद्दोषवर्ण शुक्रं स्यात् तदा तस्य पुरुषस्य पञ्चभिः कर्मभिः विशुद्धस्य तेषां दोषाणां दुष्टिन भैषजैस्तं पुरुषमुपाचरेत् । इति। योनिव्याप. चिकित्सितार्थमाह-भवति चात्रेति ॥५२॥
गङ्गाधरः-सलिङ्गा इत्यादि। मुनिना पुनर्वसुना। इति योनिध्यापदधिकारः॥५३॥
गङ्गाधरः-अथात्र गर्भग्रहणप्रसङ्गात् पुरुषस्य रेतोदोषमाह-पुनरेवेत्यादि। रोगाध्यायेऽष्टोदरीये अष्टौ रेतोदोषा इति उद्देश्यपुनर्निर्देशः कृतः। अष्टौ रेतोदोषा इति "तनु शुष्कं फेनिलमश्वेतं पूत्यपिच्छिलमन्यधातूपहितमवसादि चेति'
चिकित्सामाव-पञ्चकर्मेत्यादि । दोषाणां वातादीनां वर्णर्यदि दुष्टं भवति, तदा वातादिवर्णयोगात् मायनिहरेभैषज उपाचरेदित्यर्थः ॥५१॥५२॥
पाणि:-अनान्तरे पुनरेवेत्यादिनन्थं शुक्रदोषादिलक्षणचिकित्साविधायकं केषित् मन्ति, तान्ये अन्याय्यं वदन्ति। उपपत्तिञ्च वर्णयन्ति यत् शुक्रादिदोषाः वाजीकरणे व विसिता; बच शारीरे एव प्रतिपादितम्, प्रदरश्चैवेह योनिध्यापश्चिकिरिसते इति थे
For Private and Personal Use Only