________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४७६
चरक-संहिता। योनिब्यापश्चिकित्सितम् पत्रकल्कौ घृतभृष्टौ राजादनकपित्थयोः। पित्तानिलहरौ पित्ते सर्वथैवात्रपित्तजित् ॥ मधुकं त्रिफला लोध्र मुस्तं सौराष्ट्रिका मधु । मदौनिम्बगुड़ च्यौ वा कफजेऽमृग्दरे पिबेत् ॥ विरेचनं महातिक्तं पित्तजेऽसृग्दरे हितम् । हितं गर्भपरिस्रावे यच्चोक्तं तच्च कारयेत् ॥४१॥ काश्म>कुटजक्वाथ-सिद्धमुत्तरवस्तिना। रक्तयोन्यरजस्कानां पुत्रघ्न्याश्च हितं घृतम् ॥ ४२ ॥ मृगाजाविवराहास्सृग् दध्यम्लक्षौद्रसर्पिषा। अरजस्का पिबेत् सिद्धं जीवनीयैः पयोऽपि वा ॥४३॥
पयसा पिवेत् । पत्रेत्यादि। राजादनस्य पत्रकल्को घृतभृष्टः कपित्थस्य वा पत्रकल्को घृतभृष्टः पित्तानिलहरः। पित्तेऽसृन्दरे सर्वथा रक्तपित्ताधिकारोक्तमौषधं विधीयते । मधुकमित्यादि । कफजेऽसृग्दरे मधुकादि-मध्वन्तं मदैयः पिवेत्। निम्बगुड़च्यो वा चूर्णीकृतौ मदेवः पिबेत् । विरेचनमित्यादि । महातिक्तं घृतं गर्भपरिस्रावे जातिसूत्रीयोक्तं यच्च तच्च पित्तजे कारयेत् ॥४१॥
गङ्गाधरः-काश्मय्यत्यादि । काश्मयं गम्भारीफलं तस्य कुटजस्य मिलि. तस्य काथे चतुर्गुणेऽकल्क सिद्धं घृतमुत्तरवस्तिना रक्तयोन्यादौ हितम् ॥४२॥
गङ्गाधरः-मृगेत्यादि । मृगाद्यन्यतमस्यासक् दध्यम्लायन्यतमेनारजस्का पिबेत् । अथवा जीवनीयकल्कसिद्धं पयः पिबेत् ॥४३॥
चक्रपाणिः-विरेचनमित्यादौ विरेचनमेव विवृतादि पिबेत्। तथा महातितकं घृतं कुष्टोक्त निवेदिसि योज्यम् । गर्भपरिस्रावे यच्चोक्तमिति जातिसूत्रीये गर्भचिकित्सितं यदुक्तं तत् कारयेत् ।। मृगाजावीत्यादौ मृगादीमामसूक दध्यम्लफलसर्पिषा पिबेदिति योज्यम्। अम्लक्षौद
सर्पिति वा पाठः॥४१-४३ ॥
For Private and Personal Use Only