________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः ] चिकित्सितस्थानम् ।
३४७५ पाठा जम्ब्वाम्रयोर्मध्यं शिलोद्भदं रसाञ्जनम् । अम्बष्ठा शाल्मलीवेष्टं समङ्गा वत्सकवचम् ॥ वाहीकातिविषे लोध्र बिल्वं मुस्तं सगैरिकम् । कटङ्ग मधुकं शुण्ठी मृद्वीका रक्तचन्दनम् ॥ कट्फलं वत्सकानन्ता-धातकोमधुकार्जनम् । पुष्येणोद्धृत्य तुल्यानि श्लदणचूर्णानि कारयेत् । तानि क्षौद्रण संयुज्य पिबेत् तण्डुलवारिणा ॥ अशःसु चातिसारेषु रक्तं यच्चोपवेश्यते। दोषागन्तुकृता ये च बालानां तांश्च नाशयेत् ॥ योनिदोषं रजोदोषं श्वेतं नीलं समीतकम् । स्त्रीणां श्यावारुणं यच्च प्रसह्यापि निवर्तयेत् । चूर्ण पुष्यानुगं नाम हितमात्रेयपूजितम् ॥ ४०॥
पुष्यानुग चूर्णम्। तण्डुलीयकमूलन्तु सक्षौद्र तण्डुलाम्बुना। रसाञ्जनश्च लानाञ्च छागेन पयसा पिबेत् ॥ गङ्गाधरः-पाठेत्यादि। पाठा चाम्बष्ठा चेति द्विरुक्तलाद भागद्वयम् । वाडीकं हि । कटुङ्गं श्योनाकः । वत्सकमिन्द्रयवः । पाठादीनि तुल्यान्युद्धत्य पुष्येण श्लक्ष्णचूर्णानि कारयेत्। कश्चिदाह पुष्येणोद्धृत्य यदा तदा चूर्णानि कारयेदिति। तानि क्षौद्रेण म्रक्षयिखा तण्डुलोदकेन पिवेदिति । शेषमाशीरिति ॥४॥
पुष्यानुग चूर्णम् । ... गङ्गाधरः-तण्डुलीयकेत्यादि । तण्डुलीयोऽल्पमारिषः, स चात्र रक्तो ग्राह्यः । तस्य मूलं सक्षौद्रं तण्डुलाम्बुना पिवेदथवा रसाञ्जनञ्चाथवा लाक्षां छागेन
चक्रपाणिः-पाठेत्यादौ अम्बष्टा पाठाभेदः। अन्ये तु पाठाभागद्वयग्रहणार्थ पुनः अम्बष्ठेतिपदं वर्णयन्ति । उक्त हि-"घृते तेले च योगे च यद् द्रव्यं पुनरुच्यते। भागतो द्विगुणं तदि प्रहणीयं मनीषिभिः" इति। शाल्मलोवेष्टनं शाल्मलीवेष्टः । बाह्रीकमिति कुङ्कमम् । पुष्येणेति पुष्यनक्षत्रे सत्य। नीलं श्वेतं सपीतकमिति रजोदोषविशेषणम् ॥ ४० ॥
For Private and Personal Use Only