________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४७४
चरक-संहिता। योनिब्यापचिकित्सितम् पित्ते समधुरक्षीरा वाते तैलाम्लसंयुताः। सन्निपातसमुत्थायाः कर्म साधारणं मतम् ॥ ३८॥ रक्तयोन्यामस्मृग्वणैरनुबन्धं समीक्ष्य च । ततः कुर्य्याद यथादोषं रक्तस्थापनमौषधम् ॥ तिलचूर्ण दधि घृतं फाणितं शौकरो वसा। क्षौद्रेण संयुतपेयं वातास्मृग्दरनाशनम् ॥ वराहस्य रसो मेध्यः सकौलत्थोऽनिलाधिके। शर्कराक्षौद्रयष्टाह्व-नागरैर्वा युतं दधि ॥ पयस्योत्पलशालूकं विसकालीयकाम्बुदम् । सपयःशर्कराक्षौद्रमेकशोऽसृग्दरे पिबेत् ॥ ३९ ॥
पथ्याचूणप्रयोग इत्येते प्रयोगा योनिस्रावे हिताः। श्लेष्मलायां योनौ कटुप्रायाः समूत्रवस्तयश्च हिताः। पित्ते समधुरक्षीरा वस्तयो हिताः, वाते तैलाम्लसंयुता वस्तयो हिताः। सन्निपातसमुत्थायाः साधारणं त्रिषु दोषेषक्तं कर्म हितं मतम् ॥ ३८॥ - गङ्गाधरः-रक्तयोन्यामित्यादि । रक्तयोन्यां वातादिवर्णरसृक समीक्ष्यानुबन्धं समीक्ष्य च यथादोषं रक्तस्थापनमौषधं जातिसूत्रीयोक्तं कुर्य्यात् । तिल. त्यादि। तिलचूर्णादिकं क्षौद्रेण संयुतं पेयं वातामृगदरनाशनम् । रक्तयोनिरेव प्रदरमुच्यते। शौकरी वसा वराहस्य वसा। वराहस्येत्यादि। कुलत्थरससहितवराहमांसरसोऽनिलाधिके, तथा शर्करादियुतं दधि चानिलाधिके प्रदरे। पयस्येत्यादि। पयस्या क्षीरविदारी। पयस्यादीनामेकैकं सपयःशर्कराक्षौद्रमनिलाधिकेऽसृग्दरे पिबेत् ॥३९॥
चक्रपाणिः-करीरो मरुद्र मः। कोषाम्रः स्वनामख्यातः । जिङ्गिनी प्रसिद्धा । कर्म साधारण वासादिजयोनिदोषोक मिलितं त्रिदोषजायां कर्त्तव्यम् । रक्तयोन्यामित्यादि असूगवणरनुबन्ध वीक्ष्येति अमृगवर्णविशेषैः दोषानुबन्धं परीक्ष्य ॥ ३८ ॥३९॥
For Private and Personal Use Only