________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३० अध्यायः] चिकित्सितस्थानम् ।
धातक्यामलकीपत्र-स्रोतोजमधुकोत्पलैः । जम्ब्वाम्रमध्यकाशीश-लोध्रकटफलतिन्दुकैः ॥ सौराष्ट्रिकादाडिमत्वगुडम्बरशलाटुभिः। अक्षमात्रैरजामूत्र क्षीरे च द्विगुर पचेत् ॥ तलप्रस्थं पिचं दद्यात् योनौ च प्रणयेत् ततः। कटीपृष्ठत्रिकाभ्यङ्ग स्नेहवस्तिश्च दापयेत् ॥ पिच्छिला स्राविणो योनिविप्लुतोपप्लुता तथा।। उत्ताना चोन्नता शूना सिध्येत् सस्फोटशूलिनी ॥ ३७॥ करीरधवनिम्बार्क-रेणु(वेणु)कोषाम्रजाम्बवैः। जिगिनीविषमूलानां क्वाथैर्माध्वीकसोधुभिः ॥ संयुक्तैर्धावनं मिश्रेयोनिस्रावनिवारणम् । कुर्यात् सतक्रगोमूत्र-शुक्तैर्वा त्रिफलारसैः॥ पिप्पल्ययोरजःपथ्या-प्रयोगा मधुना हिताः।
श्लेष्मलायां कटुप्रायाः समूत्रा वस्तयो हिताः॥ • गङ्गाधरः-धातकीत्यादि । धातक्यामलक्योः पत्रम् । स्रोतोजः शङ्खनाभिः। जम्ब्चाम्रयोरस्थिमध्यं मज्जा । सोराष्ट्रिकी मृत् । दाडिमफलवक उड़ म्बरस्यापकानि फलानि । अक्षमात्रैरेतैः कल्कैरजामूत्रे द्विगुणे क्षीरे चाजाया एव द्विमुणे तैलपस्थं पचेत् । तेन योनौ पिचु दद्यात्, ततः प्रणयेत् जलेन सेचयेत् । ततः कट्यायभ्यहं दापयेत् । स्नेहवस्तिश्च दापयेत् । पिच्छिलेत्यादिराशीः ॥३७॥
गङ्गाधरः-करीरेत्यादि। करीरो मरुजो द्रमविशेषः। कोषाम्रः ओडिआम्र इति लोके। जिकिनी मञ्जिष्ठा। करीरादीनां प्रत्येककाथैर्जिङ्गिनीएकमूलानां काथैर्माध्वीकसीधुभिः संयुक्तर्मिरैयौनिधावनं कुर्यात् योनिस्राक निवारणम् । त्रिफलारसः सतक्रगोमूत्रशुक्तैर्वा योनेर्धावनं कुर्यात् । पिप्पलीस्वादि। मधुना पिप्पलीप्रयोगो मधुना मारितपुटितलौहरजःप्रयोगो मधुना मधेनेति उदुम्बरक्षीरेण। क्वाथेन तस्यैवेति उदुम्बरस्य क्वाथेन। सौराष्ट्रिका अपरमृत्तिका । अजामूत्रे भोरे चेति अजाक्षीरे प्रत्येकं द्विगुणे। उत्तानेरयुन्नता ॥३५-३७॥
For Private and Personal Use Only