________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४७०
चरक-संहिता। [योनिग्यापचिकित्सितम् पित्तलानान्तु योनीनां सेकाभ्यङ्गपिचुक्रियाः। शीताः पित्तहराः कार्याः स्नेहनाथ घृतानि च। पित्तनौषधसिद्धानि कार्याणि भिषजा तथा ॥३२॥ शतावरीमूलतुलाश्चतस्रः संप्रपीड़येत् । रसेन क्षीरतुल्येन पचेत् तेन घृताढ़कम् ॥ जीवनीयः शतावऱ्या मृद्वीकाभिः परूषकैः । पिष्टैः पियालैश्चाक्षांशैयिष्टिमधुकैभिषक् ॥ सिद्धशोते च मधुनः पिप्पल्याश्च पलाष्टकम् दत्त्वा दशपलश्चात्र सितायास्तद्विमिश्रितम् ॥ ब्राह्मणान् प्राशयेत् पूर्व लिह्यात् पाणितलं तथा। योन्यस्मृकशुक्रदोषघ्नं वृष्यं पुंसवनश्च तत् ॥ क्षतक्षयं रक्तपित्तं श्वासं कासं हलोमकम् ।
कामलां वातरक्तश्च विसपं हृच्छिरोग्रहम् ।। श्यामा अनन्तमूलं श्यामादीनां कल्क कफातुरा योनौ धारयेत् । पित्तलाना मित्यादि। पित्तहराः शीताः सेकादयः क्रियाः कार्याः, स्नेहना घृतानि कार्याणि पित्तनौषधसिद्धानि ॥३२॥ - गङ्गाधरः-शतावरीत्यादि। शतावा मूलस्य चतस्रस्तुलाः पश्चाशच्छरावं पिष्ट्वा प्रपीड़ये यावांस्तद्रसो भवति, तेन रसेन क्षीरतुल्येन घृतादकं जीवनीयादिभिर्दियष्टिमधुकान्तरक्षांशैः कल्कैः पचेत् । पक्वे पूते शीते च सति मधुनोऽष्टपलं पिप्पल्याश्चाष्टपलं सिताया दशपलश्च दत्त्वा विमिश्रितं तत् प्रणयेदिति योनौ उत्तरवस्तिना प्रवेशयेत् । श्यामादीनामिति रोगभिषजितीये झ्यामाशिवृता. चतुरालेत्यादिनोक्तानाम् ॥ २७-३२॥ चक्रपाणि:-शतावरीमूलतुला इत्यादौ भाई शतावरीमूलपीड़नेन यावद रसो भवति
For Private and Personal Use Only