________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्यायः] चिकित्सितस्थानम् ।
३४७१ उन्मादारत्यपस्मारान् वातपित्तात्मकान् जयेत्। शतावरीघृतमिदं कृष्णात्रयेण पूजितम् ॥ ३३॥
शतावरीघृतम् । एवमेव क्षीरसर्पिर्जीवनीयोपसाधितम्। गर्भदं पित्तलानाञ्च रोगाणां स्याद भिषगजितम् ॥ योन्याः श्लेष्मप्रदुष्टाया वर्तिः संशोधनो हिता। वाराहे बहुशः पित्ते भावितैर्लक्तकैः कृता ॥ भावितं पयसार्केण यवचूर्ण ससैन्धवम् । वर्तिः कृता मुहर्धा- ततः सेच्या सुखाम्बुना ॥ पिप्पलीमरिचर्माषैः शताहाकुष्ठसैन्धवैः ।
वर्तिस्तुल्या प्रदेशिन्या धार्या योनिविशोधिनी ॥ ३४ ॥ पूर्व ब्राह्मणान् प्राशयेत् भोजयेत्। ब्राह्मणभोजनादुत्तरं तद घृतं पाणितलं लिह्यात् ॥ ३३॥
शतावरीघृतम्। गङ्गाधरः-एवमेवेत्यादि। एवमनेन प्रकारेण क्षीरघृतं क्षीरोत्थं सर्पि. र्जीवनीयदशककल्कसाधितं गर्भदमित्यादि स्यात्। योन्या इत्यादि। संशोधनी वर्तिहिता या या तां तामाह-वाराह इत्यादि । वाराहे पित्ते बहुशो भावितैरलक्तकैः कृता वलियोनौ दत्ता हितेत्यन्वयः। भावितमित्यादि। ससैन्धवं यवचूर्णमार्केण पयसा भावितं वर्तिः कृता मुहुर्योनौ धार्या न तु चिरकालम्, ततः सुखाम्बुना योनिः सेच्या। पिप्पलीत्यादि । पिप्पल्यादीनि पिष्वा जलेन वर्तिः प्रदेशिन्याङल्या तुल्या कार्या, कृता सा योनौ धाऱ्या योनिशोधिनी ॥३४॥ तेन समं क्षीरं घृतं वक्ष्यमाणकल्कैः पाचनीयम् । द्वियष्टिमधुकैरिति द्विभागमधुयष्टिकैः, किंवा जलस्थलयष्टिमधुकद्वययुक्तः ॥ ३३ ॥
पाणि:-एवमेवेत्यादौ शतावरीचतुःशतपलरससमेनेत्यर्थः । क्षीरोस्थितं सर्पिः जीवनीयान्यस कस्क। पयसार्कस्येति अर्कक्षीरेण। सेच्येति परिषिञ्चनीया। प्रदेशिनीतुल्या प्रदेशिन्यालीसमानपरिणाहेन दैव्यण च ॥३४॥
For Private and Personal Use Only