________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः ]
चिकित्सितस्थानम् ।
प्रवेशयेनिःसृताञ्च विवृतां परिवत्तयेत् । योनिः स्थानापवृत्ता हि शल्यभूता मता स्त्रियाः ॥ सर्व्वा व्यापन्नयोनिन्तु कर्म्मभिर्वमनादिभिः । मृदुभिः पञ्चभिर्नारीं स्निग्ध स्विन्नामुपाचरेत् । सर्व्वतः सुविशुद्धायाः शेषं कर्म्म विधीयते ॥ २५ ॥ वातव्याधिहरं कर्म्म वातार्त्तानां सदा हितम् । मोदकानूपजैर्मासैः चीरैः सतिलतण्डुलैः ॥ सवातनौषधैर्नाड़ी कुम्भीस्वेदमुपाचरेत् । प्राक्तां लवणतैलेन साश्मप्रस्तरसङ्करैः । स्विन्नामुष्णाम्बुसिक्ताङ्गीं वातघ्नैर्भोजयेद् रसैः ॥ २६ ॥ बलाद्रोइक्का घृततैलाढकं पचेत् । स्थिरापयस्याजीवन्ती - वीरर्षभकजीवकैः ॥
For Private and Personal Use Only
३४६७
सरला यथा स्यात् तथा नामयेत्, संवृतां योनिं पुनः पाणिना वर्द्धयेद् विवृतां कारयेत्, निःसृताञ्च योनिं पाणिना प्रवेशयेत् विवृतां योनिं महायो नं परिवत्र्त्तयेत् संवृणुयात् । स्थानादपस्टत्य वृत्ता योनिः शल्यभूता । सर्व्वामित्यादि । सर्व्वमेव व्यापन्नयोनिं नारीं स्निग्धस्विनां मृदुभिः पञ्चभिर्वमनादिभि रुपाचरेत् । सर्व्वत इत्यादि । सर्व्वत ऊद्धोधः प्रभृतितः । शेषं कर्म्म यत् तद विधीयते ॥ २५ ॥
गङ्गाधरः- तद् यथा वातेत्यादि । वातार्त्तानां वातयोनिव्यापन्नानाम् । औदकेत्यादि । औदकादिमांसरथवा सतिलतण्डुलैः क्षीररथवा सवातघ्नोषधैः क्षीरनादीस्वेदं कुम्भीस्वेदं वा उपाचरेत् । आक्तामित्यादि । सैन्धवलवणतैलेन मिलितेनाक्तामभ्यक्तां नारीं प्रस्तरस्वेदन सङ्करस्वेदेन वा विनामुष्णाम्बुना सिक्ताङ्गीं वातघ्नें में सरसंर्भोजयेत् ॥ २६ ॥
विवृतामिति विवृत्तमुखां परिवर्त्तयेदिति परितो वर्त्तनेन संवृतां कुर्य्यात् । पञ्चभिरितिपदं सकलकर्म्मणां मृदुतया कर्त्तव्योपदर्शनार्थम् । अस च वमनादीनां सर्व्वदेहोपकारकतया योनिगतरोगहरणेऽपि सामर्थ्य भवत्येवेति ज्ञेयम् । शेषं कर्मेति वक्ष्यमाणम् ॥ २४–२६ ॥
।
चक्रपाणिः - बलाद्रोणद्वयेत्यादौ बलाद्रोणद्वयस्य काथ इति बलायाः द्रोणद्वयप्रमाणक्का