________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६४
चरक-संहिता। योनिव्यायविकिमि व्यवायमतितृप्ताया भजन्त्यास्त्वन्नपीड़ितः। वायुर्मिथ्यास्थिताङ्गाया योनिस्रोतसि संस्थितः ॥ योनेमखं वक्रयति सास्थिमांसानिलार्तिभिः।। भृशातिमैथनासक्ता योनिरन्तमुखी मता ॥ १७ ॥ गर्भस्थायाः स्त्रिया रोक्ष्याद वायुयोंनिं प्रदूषयेत् । मातृदोषादणुद्वारां कुर्यात् सूचीमुखी तु सा ॥ १८॥ व्यवायकाले रुन्धन्त्या वेगान् प्रकुपितोऽनिलः । कुर्याद विएमूत्रसङ्गार्ता शोषं योनिमुखस्य च ॥ षड़हात् सप्तराबाद वा शुक्र गर्भाशयं गतम् ।.. सरुजं नीरुजं वापि या स्रवेत् सा तु वामिनी ॥१६॥
गङ्गाधरः-व्यवायमित्यादि । भोजनेनातिसप्ताया नार्या व्यवायं भजन्त्या मिथ्यास्थिताङ्गाया अन्नपीड़ितो वायुः। सा योनिरन्तर्मुखो मता ॥१७॥
गङ्गाधरः-गर्भस्थाया इत्यादि। यस्या दुहिता गर्भस्था तस्या मातृदोषार रुक्षाचाहारविहाराद योन्यारम्भकवीजभागस्य रोक्ष्याद वायुर्गभेनिर्माता वायुः योनि प्रदूषयेत्, अणुद्वारां सूक्ष्मद्वारां तस्या दुहितुयौनिं कुर्यात्। सा योनिः सुचीमुखी नाम मता ॥१८॥
गङ्गाधरः-व्यवायेत्यादि। या नारी व्यवायकाले समुपस्थितान् वेगान् विभूत्राणां रुणद्धि, तस्या अनिलः कुपितः सन् तां विष्मूत्रसङ्गार्ता कुर्यात् । योनिमुखस्य च शोषं कुर्य्यादिति शुष्का नाम योनिः। पड़हादित्यादि। यो योनिः षड़हात् सप्तराबाद वा गर्भाशयगतं शुक्रं सरुजं नीरुजं वा सचेत सा योनिर्वामिनी नाम ॥१९॥
पुस्मीति व्यपदेशो ज्ञेयः। व्यवायमिततृप्ताया इत्यादौ अतितृप्तायाः स्यचार्य भज मिथ्यास्थिताङ्गायाः मिथ्यास्थिताङ्गत्वेन वक्रतया अन्तः मुखनयनमभिप्रेतम्। गर्भस्थाया गया बौक्ष्यादिति रूक्षगुणात् । मातृदोषादिति मातुः गर्भकाले वातप्रकोपहेतुरूपाचारात् ॥ ४॥
पाणिः-शोषं योनिमुखस्रेत्यनेन योनिमुखशोषात् शुष्क योनिमज्ञा। पहादिकालिक
For Private and Personal Use Only