________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३० अध्यायः] चिकित्सितस्थानम्। ३४६३
शूना स्पर्शासहा सार्त्तिर्नीलपीतमसृक् स्रवेत् । श्रोणिवङ्क्षणपृष्ठाति-ज्वरार्तायाः परिप्लुता ॥ १३॥ वेगोदावर्तनाद योनिमावर्त्तयति मारुतः। सा रुगार्ता रजः कृच्छ्र णोदावृत्त्य विमुञ्चति ॥ आर्तवे या विमुक्त तु तत्क्षणं लभते सुखम् । रजसो गमनाई ज्ञयोदावर्तिनी बुधैः ॥ १४॥ अकाले वाहमानाया गर्भण पिहितोऽनिलः । कणिकां जनयेद् योनौ श्लेष्मरक्तन मूर्छितः॥ . रक्तमार्गविरोधिन्या तया कर्णिकयान्विता। सा योनिः सर्वभिषजा नामतः कर्णिनो मता ॥ १५ ॥ रौक्ष्याद वायुर्यदा गर्भ जातं जातं विनाशयेत्। दुष्टशोणितजं नाUः पुत्रन्नी नाम सा मता ॥ १६ ॥ सम्भोगे क्षवद्गारधारणात् पित्तसंमूर्छितोऽनिलो दूषयति सा योनिः परिप्लुता नाम ॥१३॥
गङ्गाधरः-वेगेत्यादि। वेगानामुदावर्तनादधो वेगधारणात् । उदावृत्त्य ऊर्द्ध मारुतेनावृत्त्य बद्धम् । इत्येवं प्रकारेण रजस अर्द्ध गमनादुदावर्तिनी नाम योनिः ॥१४॥
गङ्गाधरः-अकाल इत्यादि। अकाले वाहमानायाः अल्पकाले गर्भ वहन्त्या गभण पिहितोऽनिलः। कणिकां पद्मकर्णिकामिव चक्रिकाम्, सा कणिनी नाम योनिः॥१५॥
गङ्गाधरः-रोक्ष्यादित्यादि। पुत्रघ्नी नाम सा योनिः॥१६॥ योनिमुदावर्त्तयते इति योनिमुदावर्त्तवृत्तां करोति। विकारेण रजसः ऊर्द्ध गमनात् उदावर्तिनीति अच्यते। वाहमानाया इत्यादि अप्राप्तगर्भनिष्क्रमणकाले प्रवाहणं कुर्वन्त्याः। कर्णिकामिति मणिकाकारं प्रन्थिम् ॥ १३-१५॥ । चक्रपाणिः-रौक्ष्यादिति स्क्षगुणोत्कर्षात्, दुष्टशोणितजमिति वचनादिह वायुना दृष्टिरपि जियते इति दर्शयति। अन च यथापि सामान्येनैव गर्भविनाश उक्तः, स्थापि पुत्रस्व प्राधान्यात
For Private and Personal Use Only