________________
Shri Mahavir Jain Aradhana Kendra
Achar
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४५६
चरक-संहिता। वानरक्तचिकित्सितम् तगरं त्वक् शताहला मुस्तं कुष्ठं हरेणुका । दारुव्याघनखञ्चाम्ल-पिष्टं वातकफास्त्रनुत् ॥ बुद्धा स्थानविशेषांश्च दोषाणाश्च बलाबलम् । चिकित्सितमिदं कुर्याहापोहविकल्पवित् ॥४८॥ कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा। अतिवृद्धेऽनिले नादौ शस्तं स्नेहनवृहणम् ॥ व्यायामशोधनारिष्ट-मूत्रपानविरेचनैः । तक्राभयाप्रयोगैश्च क्षपयेत् कफमेदसी ॥ ४६॥ बोधिवृक्षकषायन्तु प्रपिबेन्मधुना सह। वातरक्तं जयत्याशु त्रिदोषमपि दारुणम् ॥ पुराणयवगोधूम-मध्वरिष्टसुरासवैः। शिलाजतुप्रयोगैश्च गुग्गुलोर्माक्षिकस्य च ॥ गङ्गाधरः-तगरमित्यादि। तगरादिव्याघ्रनखान्तमम्लपिष्टं वायसी पात्रौं प्रातर्लिप्त मध्याहे भक्षयेदिति प्रकरणात्। अनुक्तमुपसंहत्तु माहबुद्धत्यादि। ऊहस्तकौऽपोहो वितर्कः ॥४८॥
गङ्गाधरः-कुपित इत्यादि। मेदसः कफस्य वा मार्गसंरोधात् कुपिते. ऽनिलेऽतिद्धे वातरक्त आदौ स्नेहनहणं न शस्तम्, तत्र कफमेदसी व्यायामा. दिभिः क्षपयेत् ॥४९॥
गङ्गाधरः-अपरश्वाह-बोधीत्यादि। बोधिवृक्षोऽश्वत्थस्तस्य कार्य मधु प्रक्षिप्य पिबेत् । पुराणेत्यादि। गुगगुलोः प्रयोगैर्माक्षिकस्य च प्रयोगः । उमा अतसी। अगच्छदानीति वरुणपत्राणि । अम्लैरिति कामिकादिभिः। बुढ़े त्यादि अवस्थाकर यमाह-उहापोह विकल्पविदिति पूर्वोक्तचिकित्सितस्य ऊहापोहविकल्पज्ञः ॥ ४०-४८॥ . .. चक्रपाणिः-कुपित इत्यादि। मेदसः कफस्य वा अतिवृक्ष्या कृतात् मार्गसंरोधात कुपितेऽनिले आदौ स्नेहन तथा बृहण न शरतमिति सकारार्थः। अत्र स्नेहनवृहनिषेधे सति कर्तव्य
For Private and Personal Use Only