________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९श मण्यायः]
चिकित्सितस्थानम् । ३४५५ क्षीरं तैलं गवां मूत्रं घृतञ्च कटुकैः शृतम् । परिषेके प्रशंसन्ति वातरक्त कफाधिके ॥ ४५ ॥ लेपः सर्षपनिम्बार्क-हिंस्राक्षोरतिलहितः। श्रेष्ठः सक्तुघृतक्षीर-कपित्थत्वगभिरेव च ॥ ४६॥ गृहधूमो वचा कुष्ठं शताहा रजनीद्वयम् । प्रलेपः शूलनुटु वात-रक्त वातकफोत्तरे ॥ मधुशियोहितं तद्वद वीजं धान्याम्लपेषितम् । मुहत्तं लिप्तमम्लैश्च सिञ्चेद वातकफोत्तरे ॥ त्रिफलाव्योषपत्रैला-त्वक्षोरीचित्रकं वचा । विङ्ग पिप्पलीमूलं लोमशां वृषकत्वचम् ॥
ऋद्धिं लागलिकां चव्यं समभागानि चूर्णयेत् । कल्कैलिप्वाक्सों पात्री मध्याहे भक्षयेत् ततः॥
वर्जयेद् दधिशुक्तानि क्षारं वैरोधिकानि च । . वाताले सर्वदोषेऽपि हितं शूलादि ते परम् ॥४७॥
ऽस्मिन् वातरक्ते। क्षीरमित्यादि। कटुकैस्त्रिकटुकादिभिः शृतं क्षीरादेवकैक परिषेके प्रशंसन्ति ॥४५॥
गङ्गाधरः-लेप इत्यादि। सर्वपादिभिलपः कफाधिके वातरक्त हितः। सासुप्रभृतिभिर्लेपश्च श्रेष्ठः ॥४६॥
गङ्गाधरः-गृहेत्यादि। वातकफोत्तरे गृहधूमादिपलेपः। मधुशियो रिस्यादि। रक्तशोभाञ्जनस्य वीजं धान्याम्लपेषितं तद्वद् कातकफाधिके हितम् । एतेन मुहूर्त लिप्समम्लैः काञ्जिकादिभिः सिञ्चेत् । त्रिफलेत्यादि। बक्षीरी वंशलोचना। लोमशा जटामांसी। त्रिफलादीनि चव्यान्तानि समभागानि चूर्णयेत् जलेन पेषयेत् । तैः कल्कैरायसीं लौहमयी पात्री प्रातर्लिप्सा मध्याहे तान् कल्कान् भक्षयेदेवं प्रतिदिनं कुर्यात्, दध्यादिक वन येतः॥४७॥. ... . . ... .
For Private and Personal Use Only