________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४५४
चरक संहिता | 1
क्षीरपिष्टमुमालेपमेरण्डस्य फलानि च । कुर्याच्छूलनिवृत्त्यर्थं शताह्नां वाधिकेऽनिले ॥ ४३ ॥ समूलाग्रच्छदैरण्ड-काथे द्विप्रास्थिकं पृथक् । घृतं तैलं वसा मज्जा चानूपमृगपक्षिणाम् ॥ कल्कार्थे जीवनीयानि गव्यं चीरमथाजकम् । हरिद्रोत्पलकुष्ठैला - शताह्वाश्वहनच्छदान् ॥ बिल्वमात्रान् पृथक् पुष्पं काकुभञ्चापि साधयेत् । मधूच्छिष्टपलान्यष्टौ दत्त्वा शीतेऽवतारिते ॥ शूलेनैवार्दिताङ्गानां लेपः सन्धिगतेऽनिले । घातर के स्रुते. भग्ने खज्जे कुष्ठे च शस्यते ॥ ४४ ॥ शोफगौरवण्डादार्य चास्मिन् कफोत्तरे ।
मूत्रनार सुरापक्क - घृतमभ्यञ्जने हितम् ॥ पद्मकं त्वक् समधुकं शारिवा चेति घृतम् । सिद्धं समधुशुक्तं स्यात् सेकाभ्यङ्गः कफोत्तरे ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
[ वातरक्त चिकित्सितम्
स्युः । घृतमित्यादि । सहचरात् झिण्या मूलम् । घृतादिभिर्लेप एकः । तदवत् । भृष्टास्तिलाः पयसि पयसि क्षिप्ता ता निव्र्वापिताः पिष्टा लेपस्तवत् । क्षीरपिष्टमित्यादि । अधिकेऽनिले वातरक्ते क्षीरपिष्टमुम। लेषं कुर्य्यात् । एरण्डस्य फलानि च क्षीरपिष्टानि लेपं कुर्य्यात् । शताह्नां वा क्षीरपिष्टां लेपं कुर्य्यात् ॥ ४३ ॥
गङ्गाधरः- समूलेत्यादि । एरण्डस्य समूलाग्रच्छदस्य काथे चतुर्गुणे द्विमास्थिकं घृतं तैलं वा आनूपमृगपक्षिणां वसा मज्जा वा तत्र कलकार्थ जीवनीयानि दश हरिद्रादीन् काकुभं पुष्पं पृथक् प्रत्येकं बिल्वमात्रान् पलमात्रान गव्यक्षीरं स्नेहसममाजकं क्षीरश्च स्नेहसममेकत्र साधयेत् । सिद्धं तत् पूत्वावतारिते अशीते उष्ण एव मधूच्छिष्टस्य अष्टौ पलानि दत्त्वा तेन लेपः शस्यते ॥ ४४ ॥
गङ्गाधरः - अथ कफोत्तरे विधिमाह - शोफेत्यादि । शोफादियुक्ते कफोत्तरे