________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९ अध्यायः ]
चिकित्सितस्थानम् ।
एलापियालमधुक- विसं मूलञ्च वेतसात् । जेन पयसा पिष्ट्रा प्रलेपो दाहरागनुत् ॥ प्रपौण्डरीकमञ्जिष्ठा - दार्जीमधुकचन्दनैः । सितोपलैर कासक्तु-मसूरोशीर पद्मकैः ॥ लेपो रुग्दाहवीसर्प - रुक्शोफविनिवारणः । पित्तरक्तोत्तरे स्वेते लेपान् वातोत्तरे शृणु ॥ ४२ ॥ वातघ्नैः साधितः स्निग्धः सतीरमुद्गपायसैः । तिलसर्षप पिण्डैर्वाप्युपनाहा रुजापहाः ॥ चौदकप्रसहानूप-वेशवाराः सुसंस्कृताः । जीवनीयौषधस्नेह युक्ताः स्युरुपनाहने ॥ स्तम्भतोदरुगायास - शोफाङ्गग्रहनाशनाः । जीवनीयौषधस्नेहा सपयस्का वसापि वा ॥
Acharya Shri Kailassagarsuri Gyanmandir
घृतं सहचरान्मूलं जीवन्ती छागलं पयः । लेपः पिष्टास्तिलास्तद्वत् भृष्टाः पयसि निवृताः ॥
२४५३
पिष्टैः सर्पिषा युक्तैर्वा लेपः । एलेत्यादि । मूलश्च वेतसादित्यशोकस्य मूलं बेतसवृक्षस्य मूलं वा । प्रपौण्डरीकेत्यादि । एरका शरमूलम्, रुक् साधारणरुजा, वीसपेंस्य रुक् । पित्तेत्यादि । सराग इत्यादिभिरुक्तास्त्वेते प्रलेपा शेयाः । वातोत्तरे तु लेपान् शृणु ॥ ४२ ॥
गङ्गाधरः- वातघ्नैरित्यादि । वातघ्नेर्भद्रदार्व्वादिभिः साधितः स्निग्ध उपनाहस्तथा सक्षीरमुद्गपायसैरुपनाहः तिलसर्व पपिण्डर्वाप्युपनाहः इत्येते तूपनाहा रुजापहाः । औदकेत्यादि । औदकादिमांसवेशवाराः सुसंस्कृताः जीवनीयौषधदशकेन घृतादिस्नेहेन च युक्ता उपनाहनं स्युः । जीवनीयेत्यादि । दश जीवनीयौषधानि स्नेहाश्च तैलादयः सपयस्का वसा वा उपनाहने
For Private and Personal Use Only
- मिक्तिः । पुलिनं नदीतटः । पुलिनस्पर्शेन शीते शयने । पयसि निर्वृता इति क्षीरे निर्वापिता । ४३३