________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achan
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४५२
चरक-संहिता। (वातरक्तचिकित्सितम् द्राक्षक्षुरसमद्यानि दधिमस्त्वम्लकाधिकम् । सेकार्थ तण्डुलक्षौद्र-शर्कराम्बु च शस्यते ॥ ४०॥ कुमुदोत्पलपत्रादैर्मणिहारैः सचन्दनैः। शीततोयानुगैर्दाहे प्रोक्षणं स्पर्शनं हितम् ।। चन्द्रपादाम्बुसंसिक्ते क्षौमपद्मदलच्छदे। शयने पुलिनस्पर्श शोतमारुतवीजिते । चन्दना स्तनकराः प्रिया नार्यः प्रियंवदाः। स्पर्शशीताः सुखस्पर्शा नन्ति दाहं रुजं क्लमम् ॥४१॥ सरागे सरुजे दाहे रक्तं विस्राव्य लेपयेत् । मधुकाश्वत्थत्वङ मांसो-वोरोडम्बरशाद्वलैः॥ जलजैर्यवचूणैर्वा सयष्टयाह्वपयोघृतैः।
सर्पिषा जीवनीयर्वा पिष्टैलेंपोऽर्तिदाहनुत् ॥ जोवनीयानां निकाथैः पञ्चमूलस्य वा महतो निकायैस्तद्वत् स्तम्भादौ कोष्णैर्दाहे तु शीतलभिषक परिषेचयेत् । द्राक्षेत्यादि । द्राक्षारसादिकं सेकार्थ पृथक पृथक् शस्यतेऽनिलमाये ॥४०॥
गङ्गाधरः-कुमुदत्यादि। वातरक्त दाहे शीततोयानुगः शीततोयसिक्तः कुमुदादिभिः सचन्दनः प्रोक्षणं स्पर्शनञ्च हितम्। चन्द्रेत्यादि। पुलिनस्पर्श पुलिनदेशे विस्तारिते शयने शय्यायां चन्द्रपादेन चन्द्रकिरणेनाम्बुना वा सिक्ते क्षोमवस्त्रच्छदे पद्मदलच्छदे वा व्यजनकृतशीतमारुतवीजिसे शयानस्य चन्दनाई स्तनकराः प्रियाः प्रियंवदाः स्पर्शशीता नार्यः मुखस्पर्शा दाहादिकं घ्नन्ति ॥४१॥
गङ्गाधरः-सराग इत्यादि। सरागादौ वातरक्त रक्तं विस्राव्य मधुरादिभिः लेपयेत्। वीरा काकोली। शाद्वलः नवणस्थानमृत्तिका। जलजैरित्यादि। यष्टयाहपयोघृतसहित लजः पनादिपुष्पैर्यवर्वा। जीवनीयैः
चक्रपाणिः-मधुरसिद्वैः स्नेहैरिति जीवनीयसिद्धस्नेहैः। तण्डुलेत्यादौ प्रत्येकं त्रिभिरग्बुशब्दः सम्बध्यते । शीततोयानुगैरिति शीततोयसिक्तैः। चन्द्रपादाम्बुसंसिक्त इति -तुषारजल
For Private and Personal Use Only