SearchBrowseAboutContactDonate
Page Preview
Page 1222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९ अध्यायः ] चिकित्सितस्थानम् । ३४५१ समधूच्छिष्टमाञ्जिष्ठं ससर्जरससारिवम् । पिण्डतैलं तदभ्यङ्गात् वातरक्तरुजापहम् ॥ ३६ ॥ पिण्डतैलम् । दशमूलशृतं क्षीरं सद्यः शूलनिवारणम् । परिषेकोऽनिलप्राये तद्वत् कोष्णेन सर्पिषा॥ स्नेहर्मधुरसिद्धर्वा चतुर्भिः परिषेचयेत् । स्तम्भाक्षेपणशूलात्ते कोष्णैर्दाहे तु शीतलैः॥ तद्वद गव्याविकच्छागैः क्षीरैस्तैलविमिश्रितः । निक्काथैर्जीवनीयानां पञ्चमूलस्य वा भिषक् ॥ योग्यं किञ्चित् तैलं तोये प्रभूते खजिते मन्धनदण्डेन मथिते सति तल्लेपनं ज्वरादिनुत् स्यात् ॥३८॥ गङ्गाधरः-समधूच्छिष्टेत्यादि । तैलं प्रस्थोन्मितं मधूच्छिष्टादिचतुष्कं कल्क पादिकं दत्त्वा चतुगुणे जले पक्त्वा वस्त्रपूतं कुर्यात् तत् पिण्डतैलम् ॥ ३९ ॥ पिण्डतैलम्। गङ्गाधरः-दशमूलेत्यादि। दशमूलमष्टमांश क्षीराज्जलं चतुगुणं पत्त्या क्षीरावशेषं, तेन परिषेकः प्रायानिले। तद्वत् कोष्णेन सर्पिषाऽनिलपाये परिष्कः। स्नेह रित्यादि। मधुरगणद्रव्यैः सिद्धेश्चतुर्भिः स्नेहः स्तम्भाक्षेपण. शुलार्स कोष्णः परिषेचयेत् । दाहे तु तैः शीतलैः परिषेचयेदिति। तद्वदित्यादि। तलविमिश्रितैर्गव्यादिक्षीरः कोष्णेन स्तम्भादिषु परिषेचयेद दाहे तु शीतलैः। पतम्या या पाकापेक्षया निःशेषा भवति। क्षीरश्चात स्नेहवर्द्धकमस्ति तेन यथाश्रुतमेव भाचार्यवचनं प्रमाणमिति पश्यामः, किञ्च प्रत्यासन्ने एव पाके रुद्रवत् स्नेहकल्कोहमनमन कर्तव्यम्। तेन स्नेहापेक्षयैव भवति। गुडूचीत्यादौ द्रवात् पादिकस्नेह इति न्यायात् प्रस्थं तैलस्य भवति। खजितमिति मथितम् ॥ ३६-३८॥ चक्रपाणिः-समधूच्छिष्टेत्यादौ मधूच्छिष्टादीनि कलकः जलच द्रवं देयम्। पिण्डसलभाषयात्र वस्तापूतमेव एतत् तैलं कर्त्तव्यम् । अत्र तैले एव सर्जरसस्थाने मच्छिष्टादीनां प्रक्षेपात् तत् तैलं अभ्यङ्गे उच्यत इति जतूकर्णदचनाइलीयते, उक्त हि-कालिकसर्जरसतं खजितं बहुमा जलेन दाहहितम् । विकसानन्तासिक्थकसर्जरसैर्युकं अभ्यञ्जनमिति ॥३९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy