SearchBrowseAboutContactDonate
Page Preview
Page 1219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४४८ चरक-संहिता। [वातरक्तचिकित्सितम तैलद्रोण पचेत् तेन दत्त्वा पञ्चगुणं पयः। पिष्टा त्रिपलिकांश्चैव चन्दनोशीरकेशरान् ॥ पत्रैलागुरुकुष्ठानि तगरं मधुयष्टिकाम्। मञ्जिष्ठाष्टपलञ्चैव तत् सिद्धं सार्वयोगिकम् ॥ वातरक्त क्षतक्षीणे भारातें क्षीणरेतसि । वेपनोत्क्षिप्तभग्नानां सङ्गिकारोगिणाम् ॥ योनिदोषमपस्मारमुन्मादं विषमज्वरम् । हन्यात् पुंसवनञ्चैतत् तैलाग्राममृताह्वयम् ।। ३२ ॥ अमृताख्यं तैलम्। पद्मवेतसपष्टा-फेनिलापनकोत्पलैः। पृथक् पञ्चपलैदर्भ-बलाकिंशुकचन्दनैः। जले शृतैः पचेत् तैल-प्रस्थं सौवीरसम्मितम् । लोध्रकालीयकोशीर-जीवकर्षभकेशरैः॥ तेन चतुद्रोणकाथेन तैलद्रोणं पञ्चगुणं पञ्चद्रोणं पयो दत्त्वा चन्दनादीनां मधुयष्टिकान्तानां प्रत्येकं त्रिपलं पिष्ट्वा मञ्जिष्ठाष्टपलश्च कल्कं दत्त्वा पचेत् । सिद्धमेतत् तैलं सार्वयौगिकं पानाभ्यञ्जनादिषु सर्वेषु यौगिकम्। वातरक्त इत्यादौ श्रितमित्यूह्यम् ॥३२॥ अमृताख्यं तैलम् । गङ्गाधरः-पोत्यादि । पद्म' पुष्पं वेतसोऽशोकः। फेनिलाः कोलं पाक पद्मकाष्ठं दर्भ उलुया कश्चित् कुशमूलमाह। पद्मादीनां चन्दनान्तानां पृथक पश्चपलेरष्टगुणे जले शृतैः पादशेषेस्तै लप्रस्थं सौवीराम्लस्य च प्रस्थं लोध्रादीनां गुडूच्यादीनां प्रत्येक शतपलत्वम्। कोलादीनां प्रत्येकमादकमानत्वम्। काश्माणामिति गम्भारीफलानाम्। सार्वयौगिकमिनि पानादिचतुःप्रयोगे यौगिकत्वम्। पुसवनमिति पुसूतिकारकम् ॥ ३१॥३२॥ चक्रपाणिः- पनवेतसैत्यादौ फेनिला उपोदिका। सौवीरसम्मितमिति स्नेहसमं सौवीस्कम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy