________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[वातरक्तचिकित्सितम्
३४४६
चरक-संहिता। शतपुष्पावरीमूर्खा-पयस्यागुरुचन्दनः। स्थिराहंसपदीमांसी-द्विमेदामधुपर्णिभिः ॥ काकोलीक्षीरकाकोली-तामलकूद्धिपद्मकैः। जोवकर्षभजीवन्ती-त्वपत्रनखबालकः॥ प्रपौण्डरोकमञ्जिष्ठा-सारिवेन्द्रीवितुन्नकैः । चत्तुःप्रयोगात् तद्धन्ति तैलं मारुतशोणितम् ॥ सोपद्रवं सागशूलं सर्वगात्रानुगं तथा। वातापित्तदाहार्ति-ज्वरघ्नं बलवर्णकृत् ॥३०॥ मधुकस्य शतं द्राक्षा खजराणि परूषकम् । मधूकोदनपाक्यौ च प्रस्थं मुजातकस्य च ॥ काश्माढकमित्येतच्चतुोणे पचेदपाम्। शेषेऽष्टभागे पूते च तस्मिंस्तैलाढकं पचेत् ॥ तथामलककाश्मर्य-विदारीक्षुरसैः समः। चतुद्रोणेन पयसा कल्क दत्त्वा विपाचितम् ॥ ..
शतपुष्पादीनां प्रत्येकं पलं कल्कः। वितुन्नकस्तामलकीप्रभेदः भागद्वयं वा। चतुःप्रयोगादिह प्रोक्तवस्तिकर्मनस्याभ्यञ्जनसेकैः प्रयोगात् ॥ ३० ॥
- मधुपादितैलम् । गङ्गाधरः-मधुकस्येत्यादि। यष्टीमधुपलशतं द्राक्षादीनां प्रत्येकं प्रस्थः। काश्मय्यस्य गम्भारीफलस्याकं चतुर्दोणे जले पचेत्। अष्टभागे शेषे द्वात्रिंशच्छरावे तैलाढकं षोड़शशरावं आमलकरसं काश्मरीफलरसं विदारी
दत्त्वा तैलादकं पचेत् । वरी शतावरी। हंसपदी स्वनामख्याता। विसुन्नकं धान्यकम् । चतुःप्रयोगादिति पानाभ्यङ्गवस्तिनस्यप्रयोगात् ॥ २७-३०॥
चक्रपाणिः-मधुकस्य शतमिति शतधा पाकेन मधुकपलशतात् सिमित्यर्थः।
For Private and Personal Use Only