________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९श अध्यायः
चिकित्सितस्थानम्।
३४४५ . काश्मय्यं त्रिवृतां द्राक्षां त्रिफलां सपरूषकाम् ।
शृतां पिबेद विरेकार्थे लवणक्षौद्रसंयुताम् ॥ त्रिफलायाः कषायं वा पिबेत् क्षौद्रेण संयुतम् । धात्रीहरिद्रामुस्तानां कषायं वा कफाधिकः ॥ २७ ॥ योगैश्च कल्पनिर्दिष्टैरसकृत् तं विरेचयेत् । मृदुभिः स्नेहसंयुक्तात्वा वायुमनावृतम् ॥ निर्हरेटु वा मलं तस्य सघृतैः क्षीरवस्तिभिः । न हि वस्तिसमं किश्चिद वातरक्तचिकित्सितम् ॥ २८ ॥ वस्तिवङ्क्षणपावोरु-पास्थिजठरार्तिषु । उदावर्ते च शस्यन्ते निरूहा सानुवासनाः॥ दद्याच्चमानि तैलानि वस्तिकम्मणि बुद्धिमान् । नस्याभ्यञ्जनसेके च दाहशूलहराणि च ॥ २६ ॥ मधुपाः ® पलशतं कषाये पादशेषिते। तैलादकं समनोरं पचेत् कल्कः पलोन्मितः ।। गाधरः-काश्मय्ये मित्यादि। काश्मय्र्यफलादिकां काथयिखा सैन्धवक्षौद्रे प्रक्षिप्य विरेकार्थ पिबेत् । त्रिफलाया इत्यादि। त्रिफलाकषायं क्षौद्रयुक्तं पिचेत् । कफाधिको वातरक्ती धात्रीप्रभृतीनां कषायं वा पिवेत् ॥२७॥ __ गङ्गाधरः-योगैरित्यादि। कल्पस्थाने निद्दिष्टविरेचनयोगैम दुभिः स्नेहसंयुक्तरसकृत तं नरं विरेचयेत्। निर्ह रेदित्यादि। तस्य वा मलं सघृतक्षोरवस्तिभिनिहरेत्। हि यस्माद वस्तिसमं वातरकचिकित्सितं नास्ति ॥२८॥
गङ्गाधरः-वस्तीत्यादि । वस्त्यादिष्वत्तिषु उदावर्ते च निरूहा अनुवासनश्च शस्यन्ते। दद्यादित्यादि। इमानि वक्ष्यमाणानि तैलानि वस्तिकम्मणि अनुवासने दद्यात् । नस्यादौ च दाहादिहराणि तानि स्युः ॥२९॥
गङ्गाधरः-मधुपर्णा इत्यादि। मधुपर्णी गुडूची शतपले जलद्रोणः । चक्रपाणि:-क्षीरप्रधानो वस्तिः भीरवस्तिः। मधुयष्टया इत्यादौ मधुकतुलायां जलद्रोणं * मधुयध्या इति चक्रतः पाठः।
४३२
For Private and Personal Use Only