________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४१४
चरक-संहिता। वातरक्तचिकिसितम तैलं यः शर्कराश्च पाययेद् वा सुमूर्छिताम् । सर्पिस्तैलवसाचौद्रमिश्रितं वा पिबेत् पयः॥ अंशुमत्या शृतः प्रस्थः पयसः ससितोपलः । पाने प्रशस्यते तद्वत् पिप्पलीनागरैः शृतः ॥ बलाशतावरीराना-दशमूलैः सपीलुभिः । श्यामैरण्डस्थिराभिर्वा वातार्तिघ्नं शृतं पयः॥ धारोष्णं मूत्रयुक्तं वा क्षीरं दोषानुलोमनम् । पिबेद वा सत्रिवृच्चणं पित्तरक्तेऽनिलात्मके ॥ २५ ॥ क्षीरेणैरण्डतैलं वा प्रयोगेण नरः पिबेत् । बहुदोषो विरेकार्थ जीणे क्षीरोदनाशनः ॥ कषायममृतानां वा घृतभृष्टं पिबेन्नरः।
क्षीरानुपानं त्रिवृता-चूर्ण द्राक्षारसेन वा ॥ २६ ॥ गङ्गाधरः-तैलमित्यादि। तैलं पयः शर्करां युक्त्या खजेन सुमूच्छि तां कुला पाययेत्। सर्पिरादिभिः सह पयः खजेन मिश्रितं कृखा वा पिबेत् । अंशुमत्येत्यादि। अंशुमती शालपर्णी पयसोऽष्टमांशा जलं चतुःप्रस्थं पयसः प्रस्थः पक्त्वा पयोऽवशिष्ट पादिकां सितोपलां दत्त्वा पिवेत्। तद्वत् पिप्पली. नागरः शृतं ससितोपलं पयः पिबेत् । बलेत्यादि । बलादिभिरष्टमांशश्चतुर्गुणजले शृतं पयः श्यामादिभिरष्टमांशश्चतुर्गुणजले शृतं पयो वातार्तिघ्नम् । धारेत्यादि। धारोष्णं क्षीरं गोमूत्रयुक्तं दोषानुलोमनं पित्तरत्तेऽधिके वातरक्तेऽनिलात्मके च पिबेत्, अथवा धारोष्णं क्षीरं त्रिच्चूर्ण युक्तं दोषानुलोमनं पिबेत् ॥२५॥
गङ्गाधरः-क्षीरेणेत्यादि । एरण्डतैलं क्षीरेण प्रयोगेण नित्यं पिबेत् । जीणे क्षीरोदनमश्नीयात्। अमृतानां गुडू चीनां कषायं घृतभृष्टं क्षीरानुपानं पिबेत्, अथवा द्राक्षारसेन त्रिवृताचूर्ण पिवेद विरेकार्थमित्यनुवर्तते ॥२६॥
चक्रपाणिः-अशुमती शालपर्णी। ससितोपल इति शर्कराद्विपलम्। इयश्च भीरमाला उत्तमाग्नीन् प्रति । धारोष्णमिति दोहकालमेव धारयति। अग्नियोगादिना उष्णीकृतं मूसना भीरसमम्, सनिवृश्चूर्ण धारोष्णं क्षीरमिति सम्बन्धः। प्रयोगेणेत्यभ्यासेन ॥ २५ ॥ २६ ॥
For Private and Personal Use Only