________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२शानन्यायः
चिकित्सितस्थानम् । कुर्यात् कल्कं कषायञ्च ताभ्यां तैलं घृतं पचेत् । लाभतश्च वसामज धन्वप्रतुदवैष्किरम् ॥ चतुर्गुणेन पयसा तत् सिद्धं वातशोणितम् । सर्वदेहाश्रितं हन्ति व्याधीन् घोरांश्च वातजान् ॥ २३ ॥ स्थिरां श्वदंष्ट्रां वृहती सारिवाश्च शतावरोम् । काश्मरीमात्मगुप्ताश्च वृश्चीरं वै बले तथा ॥ एषां काथे चतुःखीरे पृथक् तैलं पृथग् घृतम् । मेदा शतावरी यष्टी जीवकर्षभको बला ॥ ® पक्ता मात्रा ततः क्षीर-त्रिगुणाध्यर्द्धशर्करा। खजेन मथिता पेया वातरक्त त्रिदोषजे ॥ २४ ॥
कुर्यात् ताभ्यां पादिककल्क-चतुर्गुणकषायाभ्यां तैलं घृतश्चेति द्वयमेकीकृत्य चतुगु णेन पयसा पचेत् । लाभतस्तु धन्वादिवसामज च तत्र दत्त्वा ( समं चतुःस्नेहं चतुर्गुणेन क्षीरेण ताभ्यां पादिककल्कचतुर्गुणकषायाभ्यां) पचेत् ॥२३॥
गङ्गाधरः-स्थिरामित्यादि। स्थिरादीनां काथे तैलसमाने घृतसमे चतुर्गुणे क्षीरे तैलं घृतं. वा मेदादिकल्केन पक्त्वा स्थाप्यम्, ततो मात्रा यावती पातु योग्या सा क्षीरत्रिगुणा त्रिगुणदुग्धयुता -साकगुणशर्करासहिता खज़ेन मथिता पेया, एवं प्रतिदिनं पेया। यद्यपि त्रिदोषमसाध्यमुक्तं तथापि चाबलबद्वातरक्ते त्रिदोषजेऽपि यापनार्थमुक्तम् ॥२४॥
.. पाणिः-ऋष्यप्रोक्ता अतिबला काला मञ्जिष्टा मधुपर्णी विकतम्। धन्वप्रतुदवैष्किरमिति घसामजविशेषणम् ॥ २३ ॥ .
चक्रपाणिः-स्थिरामित्यादौ चतुःक्षीर इति चतुर्गुण क्षीरम्। पृथक् तैलं पृथग् घृतमित्यनेन संमिश्रपाकं निषेधयति । श्रीरतिगुणा सार्बभागा शकरा यस्यां मातायां सा विगुणाध्यईशर्करा ।
पालो हस्तः मन्यानो वा ॥ २४ ॥
• मेदाशवावरीयष्टी-जीवन्तीजीवकर्षभैरिति पाठान्तरम् ।
For Private and Personal Use Only