________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९ अध्यायः ]
चिकित्सितस्थानम् ।
तस्य स्थानं करौ पादावग ल्यः सर्व्वसन्धयः । कृत्वाद हस्तपादेषु मूलं देहं विधावति ॥ सौक्ष्म्यात् सर्व्वसरत्वाच्च पवनस्यास्सृजस्तथा । तद् द्रवत्वात् सरत्वाच्च देहं गच्छेत् सिरायणः ॥ पर्व्वस्वभिहतं क्र द्धं वक्रत्वादवतिष्ठते । स्थितं पित्तादिसंसृष्टं तास्ताः सृजति वेदनाः ॥ करोति दुःखं तेष्वेव तस्मात् प्रायेण सन्धिषु । भवन्ति वेदनास्तास्ता अत्यर्थं दुःसहा नृणाम् ॥ ४ ॥ स्वेदोऽत्यर्थं न वा काष्यं स्पर्शाज्ञत्वं चतेऽतिरुक् । सन्धिशैथिल्यमालस्यं सदनं पिकोनमः ॥
For Private and Personal Use Only
३४३३
जानुजङ्घोरुकटीस - हस्तपादाङ्गसन्धिषु । निस्तोदः स्फुरणं भेदो गुरुत्वं सुप्तिरेव च ॥ कराडूः सन्धिषु रुग् भूत्वा भूत्वा नश्यति चासकृत् । वैवराय मण्डलोत्पत्तिर्वाता पूर्वलक्षणम् ॥ ५ ॥
1
गङ्गाधरः - तस्येत्यादि । तस्य स्थानं करपादाङ्गुलीस धयः । तत्र हस्तपादेष्वादी मूलं कृत्वा तद् वातशोणितं पवनस्यास्सृजश्च सौक्ष्म्यादितो देखें विधावति । तच्च वातशोणितं द्रवत्वात् सरत्वाच्च सिरायणैदेहं गच्छेत् । पर्व्वसु क्रुद्धं तद्रक्तमभिहतं वक्रत्वादवतिष्ठते । तत्र स्थितं पित्तादिसंसृष्टं तास्ताः पित्तजा वेदनाः सृजति । करोति प्रायेण तत्र सन्धिषु दुःखं करोति ॥ ४ ॥ गङ्गाधरः – पूर्व्वरुपमाह – स्वेद इत्यादि । स्वेदोऽत्यर्थं न वा स्वेदः । चक्रपाणिः - बातशोणितस्य वैशेषिकं स्थानमाह । तस्य स्थानमित्यादि । अनेनैव भङ्गुलीनां ग्रहण प्राप्ते अङ्गुलीनां बहुपर्व्वतया विशेषाधिष्ठानत्वोपदर्शनार्थं पुनरभि धानन्छ । मूलमास्थायेति आस्पदं कृत्वा । तत्र हेतुमाह - सौक्ष्म्यादित्यादि । सूक्ष्म मार्गानुसारित्वात् । बालशोणितस्य देहं सर्पतः विशेषेण पस्थानम् । शिराय नैरिति शिरारूपैर्मार्गेः । वक्रस्वादिति पां नत्वात् । पित्तादिसंसृष्टमिति पित्तेन कफेन च हेत्वन्तरयुक्तेन वायुना युक्तम् । दिशः सन्धिवस्थानात् । स्वेद इत्यादिना पूर्वरूपमाह । स्वेदोऽत्यर्थं न वेति च यद्यपि कुछ पूर्वरूपे
तस्मा
सथान्यसमान भूरि सम्बन्धात् अन्यतरपूर्व्वरूपत्वे निश्चयः ॥ ४ ॥ ५ ॥