SearchBrowseAboutContactDonate
Page Preview
Page 1200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८श अन्याः चिकित्सितस्थानम् । पित्तावृते तु पित्तघ्नैर्मारुतस्यानुलोमनैः। कफावृते कफघ्नेश्च भिषक् कुर्यात् प्रतिक्रियाम् ॥ ७६ ॥ लोके वायवर्कसोमानां दुविज्ञया यथा गतिः। तथा शरीरे वातस्य पित्तस्यापि कफस्य च ॥ क्षयं वृद्धिं समत्वञ्च तथैवावरणं भिषक् । विज्ञाय पवनादीनां न प्रमुह्यति कर्मसु ॥ ७७ ॥ तत्र श्लोको। पश्चात्मनः स्थानवशाच्छरीरे स्थानानि कर्माणि च देहधातोः। प्रकोपहेतुः कुपितश्च रोगान् स्थानेषु चान्येषु वृतोऽवृतश्च ॥ संक्षेपत इत्यादि। आवृतानां प्राणादीनां चिकित्सितं यत् संक्षेपत इति मोक्तम्, भिषक् स्वयमेव तद् वितळ विस्तरेण चिकित्सितं कुर्यात् ॥५॥ · गङ्गाधरः-पित्तेत्यादि। पित्ताहते पित्तघ्नैर्मारुतस्यानुलोमनैरित्येवं शेष (कफाढते कफघ्नर्मारुतानुलोमनैश्च प्रतिक्रियां ) कुर्यात् ।। ७६॥ गङ्गाधरः-लोक इत्यादि। यथा भूलोकादिलोके वायवर्कसोमानां गतिः दुर्विश्वे या, तथा शरीरे वातपित्तकफानां गतिर्दु विशे या। क्षयमित्यादि। पवनादीनां क्षयं दृद्धिं समवञ्च तथैवावरणं विज्ञाय भिषक् कर्मसु चिकित्साक्रियासु न प्रमुह्यतीति ॥७७॥ चक्रपाणिः-वातस्यानुलोमनश्चिकित्सितं कुर्यादिति नियोजनीयम् । वातादीनां दुर्विज्ञेयता रटान्तेन दर्शयति लोक इत्या.द। क्षयमित्यादौ आवरणमपि क्षयवृद्धिसमत्वं निर्दिष्टमेव, तथापि आवरणस्य विशेषलक्षणचिकित्सार्थ पृथगभिधानम् । कर्मस्विति चिकित्सासु ॥ ७५-७७ ॥ चक्रपाणिः-पश्चात्मन इत्यादिसंग्रहे पञ्चात्मनः स्थानवशात् इति च्छेदः। देहधातोरिति ४३० For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy