________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२८
चरक-संहिता। वातव्याधिचिकित्सितम् कफपित्ताविरुद्धं यद् यच्च वातानुलोमनम् । सर्वस्थानावृतेऽप्याशु तत् काय मारुते हितम् । यापना वस्तयः प्रायो मधुराः सानुवासनाः। प्रसमोक्ष्य बलाधिक्यं मृदु वा स्रसनं हितम् ॥ रसायनानां सर्वेषामुपयोगः प्रशस्यते। शैलस्य जतुनोऽत्यर्थं पयसा गुग्गुलोस्तथा ॥ लेहं वा भार्गवप्रोक्तमभ्यसेत् क्षीरभुङ् नरः । अभयामलकीयोक्तानेकादश मिताशनः ॥ ७४ ॥ अपानेनावृते सव्वं दोपनयाहि भेषजम् । वातानुलोमनं यच्च पक्वाशयविशोधनम् ॥ इति संक्षेपतः प्रोक्तमावृतानां चिकित्सितम् ।
प्राणादीनां भिषक कुर्यात् वितयं वयमेव तत् ॥ ७५ ॥ स्वेतरेण पित्तेन कफेन चोपलक्षयेत्। उपलक्ष्य ततः परं भिषगजितैग्नभिप्यन्यादिभिः सम्यक् समाचरेत् ॥७॥
गङ्गाधरः-अपरञ्च भिषगजितमाह-कफेत्यादि। कफपित्तयोरविरुद्धं यत् यच्च वातानुलोमनं तत् सर्वस्थानाटते मारुते हितमाशु कार्यम्। यापना वस्तयो वक्ष्यन्ते सिद्धिषु मधुरा वस्तयः सानुवासना अनुवासनश्च। एवं बलाधिक्यं प्रसमीक्ष्य मृदु स्रसनं विरेचनं वा हितम। सव्वेषां रसायनानां प्रयोगः प्रशस्यते शिलाजतुनः प्रयोगश्चात्यर्थं पयसा गुगगुलो प्रयोगः। तथा भार्गवमोक्तं लेहं च्यवनप्राशं क्षीरभुनरोऽभ्यस्येत्। एवमभयामलकीयोक्तान एकादश रसायनयोगान् मिताशनोऽभ्यसेत् ।। ७४॥
गङ्गाधरः-अपानेनेत्यादि। अपानेनाटते प्राणादौ सर्व दीपनादि भेषजं यच्च वातानुलोमनं पकाशयशोधनं तदभ्यसेत् । उपसंहरति-इति
चक्रपाणिः-प्रसमीक्ष्येत्यादौ बलाधिक्ये सति नसनं मृदु कर्त्तव्यमित्यभिप्रायः। अस्यर्थ प्रशस्यत इति सम्बन्धः। लेहं वा भार्गवप्रोक्तमिति च्यवनप्राशम्, च्यवनो हि भार्गव उच्यते। उक्तं हि भायुम्वदसमुत्थाने-"भार्गवश्चयवनः कामी वृद्धः सन् विकृतिं गतः।" इति ॥ ७४ ॥
For Private and Personal Use Only