SearchBrowseAboutContactDonate
Page Preview
Page 1198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८श अध्यायः ] चिकित्सितस्थानम् | श्रावृतं श्लेष्म पित्ताभ्यां प्राणञ्चोदानमेव च । गरीयस्त्वेन पश्यन्ति भिषजः शास्त्रचक्षुषः ॥ विशेषाज्जोवितं प्राणे उदाने संश्रितं बलम् । स्यात् तयोः पोड़नात् हानिरायुपश्च बलस्य च ॥ ७१ ॥ सव्वेंऽपि ते परिज्ञाताः परिसंवत्सरास्तथा । उपेक्षणादसाध्याः स्युरथ वा दुरुपक्रमात् ॥ ७२ ॥ हृद्रोगो विद्रधिः लीहा गुल्मोऽतिसार एव च । भवन्त्युपद्रवास्तेषामावृतानामुपेक्षणात् ॥ तस्मादावरणं वैद्यः पवनस्योपलक्षयेत् । पञ्चात्मकस्य वातेन पित्तेन श्लेष्मणापि वा ॥ भिषग्जितैस्ततः सम्यगुपलक्ष्य समाचरेत् । अनभिष्यन्दिभिः स्निग्धैः स्रोतसां शुद्धिकारकैः ॥ ७३ ॥ यथानिजं यथास्वम् । आवृतमित्यादि । श्लेष्म पित्ताभ्यामानृतं प्राणञ्चोदानञ्च सर्वेष्वावृतेषु वायुषु गरीयस्त्वेन पश्यन्ति । कस्मादित्यतस्तदाह - विशेषादित्यादि । यतो विशेषात् प्राणे संश्रितं जीवितमायुः, उदाने संश्रितं बलं स्यात् । तयोः प्राणोदानयोः पित्तकफाभ्यां पीड़नादायुषो वलस्य च हानिः स्यात् ।। ७१ ।। गङ्गाधरः- सर्व्वेऽपीत्यादि । ते सर्व्वऽपि प्राणादय आता अपरिज्ञाताः सर्व्वतोभावेनाशतास्तथा परिसंवत्सरा अब्दातीताः उपेक्षणाच्चासाध्याः स्युः । अथ दुरुपक्रमात् दुष्टचिकित्सयारम्भादसाध्याः स्युः ॥ ७२ ॥ 'गङ्गाधरः- हृद्रोग इत्यादि । पित्ताद्यावृतानां प्राणादीनामुपेक्षणात् हृद्रोगादय उपद्रवा भवन्ति । तस्मात् वैद्यः पवनस्य पञ्चात्मकस्य प्राणादेरावरणं वातेन चक्रपाणि: - यथानिजानिति यथात्मीयान् । गरीयस्त्वेनेत्यधिकत्वेन । एतद्गरीयस्ले हेतुमाह - विशेषादित्यादि । संश्रितमित्यधीनम् । परिज्ञेया इति याथातथ्येन ज्ञातव्याः । सम्यग्ज्ञाता अपि उपेक्षणात् याथातथ्येन ज्ञाता अपि परिसंवत्सरात् तथेति परिसंवत्सरा उपेक्षणीयाः स्युरिति योज्यम् । हृद्रोग इत्यादिना उपद्रवान्याह । पञ्चात्मकस्येति प्राणादिभेदेन पवस्वरूपस्य ॥ ७१–७३ ॥ For Private and Personal Use Only ३४२७
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy