________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४२४
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
पञ्चान्योऽन्यावृतानेवं वातान् बुध्येत लक्षणैः । एषां स्वकर्मणां हानिवृद्धिर्वावरणे मता ॥ ६७ ॥ यथास्थूलं समुद्दिष्टमेतदावर पृथक् । स्वलिङ्गभेषजं सम्यक् शृणु मे बुद्धिवृद्धये ॥ ६८ ॥ स्थानान्यवेक्ष्य वातानां वृद्धिं हानिञ्च कर्मणाम् । द्वादशावरणान्यन्यान्युपलक्ष्य भिषग्जितम् ॥ कुर्य्यादभ्यञ्जनस्नेह - नस्यपानादि सर्व्वशः । उष्णं क्रममनुष्णञ्च व्यत्यासादवचारयेत् ॥ उदाने योजयेदूर्द्ध मपाने चानुलोमनम् । समानं शमयेच्चैव त्रिधा व्यानञ्च योजयेत् ॥
[ वातव्याधिचिकित्सितम्
For Private and Personal Use Only
अनुक्तानुपसंहरति । पञ्चेत्यादि । एवमनेन प्रकारेण लक्षणैरन्योन्यावृतान् पञ्च वातान् बुध्येत । तत्र लक्षणान्याह - एषामित्यादि । एषां प्राणादीनामपरेणावरणेन । स्वकर्म्मणामावृतस्य कर्मणां हानिः स्यादावरणस्य कर्मणां वृद्धिर्मता ॥ ६७ ॥ ६८ ॥
गङ्गाधरः - स्थानानीत्यादि । वातानां प्राणादीनां स्थानान्यवेक्ष्य कर्म्मणां वृद्धिञ्च हानिञ्चावेक्ष्यान्यानि द्वादशावरणान्युपलक्ष्य अभ्यञ्जनादि भिषग्जितं कुर्य्यात् । उष्णानुष्णक्रमश्च व्यत्यासादवचारयेत् । उदान इत्यादि । उदाने वाटते ऊर्द्ध भेषजं योजयेत् । अपाने वाटतेऽनुलोमनं योजयेत् । स्नेहपाननस्यादिकम् । आश्वासयेदिति स्थिरीकारयेत् । ऊर्द्धगेनावृते प्राणेन । अनुतावरणरूपमाह – एषां स्वकर्मणामित्यादि । अस आवाय्र्याणां बलीयावरणात स्वकर्महानिर्भवति, आवरकस्य तु स्वकर्म्म वृद्धिर्भवति यदावरणन आवाय्र्यः प्रकुपितो न भवति तदा स्वकर्मणां वृद्धिर्भवतीति व्यवस्था । अन्ये तु आवरणीयस्य स्वकर्म्मवृद्धिर्भवतीति व्यवस्थामाहुः ॥ ६५- ६८ ॥
I
चक्रपाणिः - अनुक्तावरणलक्षणझानोपायमाह - स्थानान्यवेक्ष्येति । कर्मवृद्धया व्याख्यातं पूर्ववत् । स्थानान्यवेक्ष्येत्यनेन वातानां स्थानगतविकारेण च वातविकृतिझतव्येति दर्शयति । उष्णं क्रममनुष्णचेत्यत्र उष्ण एव क्रमो वाते युज्यते, तथापि स्थानापेक्षया रक्तादिदूष्यं क्रमविपयस्य कारणं ज्ञेयम् । विकृतवातानां प्रकृतिस्थापनमाह - उदाने योजयेदूर्द मित्यादि । एतच्च स्वमार्गयोजनं वातानां यथोक्तवमनादिक्रियायोगविधानेन कर्त्तव्यम् । समानं शमयेदिति