________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२३
२८श अध्यायः ] . चिकित्सितस्थानम् ।
कम्र्मोजोबलवर्णानां नाशो मृत्युरथापि च । उदानेनावृते प्राणे तं शनैः शीतवारिणा। सिञ्चेदाश्वासयेच्चैनं सुखञ्चैवोपपादयेत्॥ ऊगेनावृतेऽपाने छर्दि श्वासादयो गदाः। स्युर्वाते तत्र वस्त्यादिभोज्यञ्चैवानुलोमनम् ॥ मोहोऽल्पाग्निरतीसार ऊर्द्धगेऽपानसंवृते। वाते स्युर्वमनं तत्र दीपनं ग्राहि चाशनम् ॥ छर्दाध्मानमुदावों गुल्मार्तिः परिकर्तिका। लिङ्ग व्यानावृतेऽपाने तं स्निग्धैरनुलोमयेत् ॥ अपानेनावृते व्याने भवेद् विएमूत्ररेतसाम् । अतिप्रवृत्तिस्तत्रापि सर्व संग्रहणं हितम् ॥ मूर्छातन्द्राप्रलापोऽङ्ग-सादोऽन्योजोबलक्षयः। समानेनावृतेऽपाने व्यायामो लघु भोजनम् ॥ स्तब्धताल्पाग्निता स्वेदश्चेष्टाहानिर्निमीलनम् । उदानेनावृते व्याने तत्र पथ्यं मितं लघु ॥
तत्रौद्ध भागिकं कर्म तथाश्वासनञ्च कार्यम्। कम्मेत्यादि। उदानसंवृत प्राणे कर्मादीनां नाशः, अथवा मृत्युश्च स्यात्। तं शनैः शोतवारिणा सिञ्चेदित्यादि। ऊद्ध गेनेत्यादि। ऊर्द्धगेन प्राणेन। मोह इत्यादि। अपानेन संहते ऊर्द्धगे प्राणे वाते मोहादयः स्युः। तत्र वमनादि कार्यम्। छर्दीत्यादि। व्यानादृतेऽपाने छादयः स्युः। तं स्निग्धैरनुलोमयेत् । अपानेनेत्यादि। अपानेनाटते व्याने विडायतिप्रवृत्तिः । तत्र सर्च संग्रहणं कर्म कार्य्यम्। मू त्यादि। अपाने समानेनाटते मूर्छादयः स्युः। तत्र व्यायामो लघु भोजनं कार्यम्। स्तब्धतेत्यादि। उदानेनाटते व्याने स्तब्धतादयः स्युः। तत्र लघु च परिमितश्च पथ्यं कार्यम् ।
For Private and Personal Use Only