SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चरक संहिता | 00 २३४८ [ वाजीकरणपाद १ इष्टा कैकशोऽप्यर्थाः परं प्रीतिकराः स्मृताः । किं पुनः स्त्रीशरीरे ये संघातेन व्यवस्थिताः ॥ संघातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्य 1 स्त्रयो हीन्द्रियाथों यः स प्रीतिजननोऽधिकः ॥ ३ ॥ सुताश्रयाः । वाजीकरणसेवनेन पुत्रे जाते सुपुत्रत्वादितः पितृलोकादिहितकर्मसम्भवात् धर्मार्थमीतियशसामवश्यम्भावित्वमिति भावः । तस्मादात्मवान् पुरुषो वाजीकरणमन्विछेत् । वाजीकरणस्य लक्षणं फलञ्च रसायनाध्याये विस्तरेण पूर्व्वमुक्तं सुश्रुतेनाप्युक्तम् । “कल्यस्योदग्रवयसो वाजीकरणसेविनः । सर्व्वष्टतुष्वहरहव्यवायो न निवारितः । स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छताम् । योषित्प्रसङ्गात् क्षीणानां क्लीवानामल्परेतसाम् । विलासिना Hari रूपयौवनशालिनाम् । नणाञ्च बहुभार्याणां योगा वाजीकरा हिताः । सेवमानो यदौचित्याद् वाजीवात्यथ वेगवान् । नारीस्तर्पयते तेन वाजीकरणमुच्यते।।" इति । तत्रादौ श्रेष्ठं वाजीकरणमाह - वाजीकरणमित्यादि । अत्र श्रेष्ठं वाजीकरणं क्षेत्रम् | क्षेत्रमाह - स्त्रीत्यादि । प्रहर्षिणी या स्त्री तत् क्षेत्रं तच्च श्रेष्ठं वाजीकरणम् ॥ २ ॥ ; तत्र गङ्गाधरः- ननु केवलं खोमात्रं प्रहर्षकरमुतान्यदित्यतः कुतश्व स्त्री प्रहर्षकरीत्यतश्च आह- इष्टा हीत्यादि । हि यस्मात् । इष्टा अभिमता अर्थाः शब्दस्पर्शरूपरसगन्धा एकैकशोsपि परं प्रीतिकराः सव्र्वचैव वस्तुषु स्मृताः । स्त्रीशरीरे संघातेन अनेकशो व्यवस्थिता ये इष्टा अर्थास्तेषु पुनः प्रीतिकरत्वे किं वचः । ननुं कथं स्त्रीमात्रमयं वाजीकरणमन्येष्वपि वस्तुषु इष्टार्था वर्त्तन्त इत्यत आह-संघात इत्यादि । हि यस्मात् । इष्टानामिन्द्रियार्थानां शब्दादीनां संघातः समुदायः स्त्रीष्वेव विद्यते नान्यत्र अर्थानामिष्टानां संघातो - वर्त्तते । यदि चान्यत्रार्थानां संघातो वर्त्तते न तर्हि इष्टानामर्थानां संघातः, यदि चेा अर्था वर्त्तन्त े न च तर्हि इष्टानामर्थानां संघातस्त्वन्यत्र वर्त्तते तस्मात् यथा भवन्ति, तदाह – पुलस्येत्यादि । आयतनं कारणम् ; एते गुणा इति धर्म्मादयः । वृष्यप्रयोगजनितः पुत्रो पितुः धर्म्मादीन् सप्पादयतीत्यर्थः । वाजीकरणं यच्चेहोक्तम्, तदृतुकाले यथाविधि - कृतमैथुनप्राधान्येनाभिप्रेतम् तेन विस्रषणीये " लय उपस्तम्भाः" इत्यादिग्रन्थेन ब्रह्मचय्यै यदुक्तम्, तद् ऋतुकाले यथाविधिकृत मैथुनाप्रतिषेधकमिति न विरोधः । सर्व्ववाजीकरणेभ्यः प्रधानरूपं वाजीकरणमाह-वाजीत्यादि । क्षेत्रमिव क्षेत्रम्, तत्र शुक्ररूपवीजप्ररोहणात् । अर्था Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy