________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः ।
अथातः संयोगशरमूलीयं वाजीकरणपादं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥ वाजीकरणमन्विच्छेत् पुरुषो नित्यमात्मवान् । तदायत्तौ हि धर्मार्थी प्रीतिश्च यश एव च ॥ पुत्रस्यायतनं ह्य तद् गुणाश्चैते सुताश्रयाः । वाजोकररामप्राञ्च क्षेत्रं स्त्री या प्रहर्षिणी ॥ २ ॥
गङ्गाधरः- अथ रसायनाध्यायानन्तरमतः स्वस्थ विध्यधिकारादुद्देशानुक्रमात् वाजीकरणमाह- अथात इत्यादि । संयोगशरमूलीयमिति स्त्रीसौभाग्यस्य आदो वाजीकरणत्वं वक्ष्यते तत सुभगस्त्रीसंयोगं योगादौ । शरमूलेक्षुमूलानीत्यादिवक्ष्यमाणवाक्यैकदेशं शरमूलञ्चाधिकृत्य कृतो वाजीकरणपादस्तं तथा ॥ १ ॥
गङ्गाधर : - वाजीकरणमित्यादि । आत्मवान् पुरुषो नित्यं वाजीकरणद्रव्यमन्विच्छेत् वाजीकरणद्रव्यान्वेषणां कुर्य्यात् । कस्मादित्यत आह —तदायत्तावित्यादि । हि यस्मात् । धर्म्मार्थो हो तदाय तौ वाजीकरणद्रव्याधीनौ । प्रीतिश्च यशश्चैव द्वे तदायत्ते । हि यस्माच्च एतद्वाजीकरणद्रव्यं पुत्रस्यापत्यस्यायतनम् । ननु वाजीकरणसेवनेन को धर्मः कथं वा स्यादर्थश्च कथं स्यादेवं प्रीत्यादयश्च कथं स्युरित्यत आह-गुणाश्चेत्यादि । एते च गुणा धर्मार्थमीतियशांसि
चक्रपाणिः - स्वस्थौजस्कर सामान्यात् रसायनमनु वाजीकरणं वाच्यम्, तत्रापि वाजीकरणे प्रवृत्तुपपदर्शकप्रकरणयुक्तत्वादादौ संयोगशरमूलीय उच्यते । संयोगः शरमूलानामस्मिन्नस्तीति संयोगशरमूलीयः ॥ १ ॥
चक्रपाणिः - अवाजी वाजीवात्यर्थं मैथुने शक्तः क्रियते येन तद् वाजीकरणम् । उक्त हि"वाजीवातिबलो येन यात्यप्रतिहतः स्त्रियम्" इत्यादि; अन्विच्छेदिति रसायनात् महाफलात् तदपेक्षयाल्पफलं वाजीकरणं पश्चादिच्छेत् । “पुरुषः" इति पदेन तरुणपुरुषग्राहिणा बालवृद्धौ निषिद्धव्यवायौ निराकरोति ; उक्तं हि - " अतिबालोऽह्यसम्पूर्ण- सर्व्वधातुः स्त्रियो व्रजन्। उपतप्येत सहसा तड़ागमिव काजलम् ॥ शुष्कं रुक्षं यथा काष्ट जन्तुदग्धं विजर्जरम् । स्पृष्टमाशु विजीर्खेत तथा वृद्धः स्त्रियो व्रजन् । ॥” इति । 'नित्यम्' इत्यनेन न रसायनवत् सकृत्प्रयोगो वृष्यस्य, किन्त्वाहारवत् सर्व्वदा सर्वोऽपि प्रयोग इति दर्शयति । आत्मवानित्यनेन दुरात्मनो वृष्यकरणं निषेधति; स हि वृष्ययोगादुपचितधातुः सन्नगम्यागमनमपि कुर्य्यात् । धर्मादयो वृष्यायत्ता एव
For Private and Personal Use Only