________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[रसायनपाद४
२३४६
चरक-संहिता।
तत्र श्लोको। आयुर्वेदसमुत्थानं दिव्यौषधिविधिः शुभः । अमृताल्पान्तरगुणं सिद्धं रत्नरसायनम् ॥ सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः।
आयुर्वेदसमुत्थाने तत् सबै सम्प्रकाशितम् ॥ २५ ॥ इति चिकित्सितस्थाने प्रथमाध्याये आयुर्वेदसमुत्थानीय
रसायनपादश्चतुर्थः। इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने
रसायनो नाम प्रथमोऽध्यायः॥१॥ गङ्गाधरः-पादार्थमुपसंहरति-तत्र श्लोकावित्यादि। अमृताल्पान्तरगुणं अमृतात् किश्चिद्धीनगुणम् ॥२५॥
गङ्गाधरः-पादं समापयतीतीत्यादि। अध्यायं समापयति अग्नीत्यादि। इति वद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ चिकित्सित
स्थाने आयुवेदसमुत्थानीयरसायनपादश्चतुर्थः ।
समाप्तश्च प्रथमोऽध्यायः॥१॥
चक्रपाणिः-संग्रहे रत्नरसायनमिति हेमादिरत्नसंयुक्तं रसायनम् ; आयुर्वेदसमुत्थानं प्रकाशिततया; दिव्यौषधिविध्यादि यवाच ब्रह्मचारिभ्योऽमरेश्वरः तत् प्रकाशितमिति योजना ॥ २५ ॥ ... इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां
चरकतारपर्य्यटीकायामायुर्वेदसमुस्थानीयरसायनपाद
श्चतुर्थः। समाप्तश्चायं प्रथमाध्यायः ।।
For Private and Personal Use Only