________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८ अध्यायः] चिकित्सितस्थानम् । ३४१३
लवगनतककोल-कुष्ठगन्धप्रियङ्गभिः । स्थौणेयतगरध्याम-वचामदनकसवैः॥ सनागकेशरैः सिद्धे दद्याचात्रावतारिते। पत्रकल्कं ततः पूतं विधिना तत् प्रयोजयेत् ॥ कासं श्वासं वरं मूर्छा-छर्दिगुल्मान् क्षतं क्षयम् । मोहशोषावपस्मारमलक्ष्मोश्च विनाशयेत् ॥ बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम् । अग्निवेशाय गुरुणा कृष्णात्रेयेण भाषितम् ॥ ५३॥
बलातैलम् । अमृतायास्तुलाः पञ्च द्रोणेष्वष्टखपां पचेत् । पादशेषे समक्षीरं तैलस्या दकं पचेत् ॥ एलामांसीनतोशीर-सारिवाकुष्ठचन्दनः । शतपुष्पाबलामेदा-महामेदर्द्धिजीवकैः ॥ काकोलीक्षीरकाकोली-श्रावण्यतिबलानखैः।
महाश्रावणिजीवन्तो-विदारीकपिकच्छुभिः ॥ शिडकक्षनिर्यासः। गन्धप्रियङ्गुः । एषु कल्केषु मध्ये तूत्तमसुगन्धिद्रव्याणि कस्तूरीजातीकोषकुङ्कु मजातिफलक' रलवङ्गानि पाककाले तैलमध्ये न दत्त्वा तैले सिद्धे पूतेऽवतारिते चोष्ण एव सम्यक् पिष्टा चूर्णीकृत्य पत्रकल्क प्रयोजयेत्। “पके पूते चोष्ण एव सम्यग यत् परिपेषितम्। दीयते गन्धवृद्धार्थ पत्रकल्कं तदुच्यते ॥” इति ॥५३॥ ___ बलातैलम्।
गङ्गाधरः-अमृताया इत्यादि। अमृताया गुडूच्याः पञ्च तुलाः अपामष्टसु द्रोणेषु पचेत् । पादशेषे काथे तैलस्या ढकमष्टशरावं क्षीरश्चाष्टशरावं तत्र गन्धशास्त्रं च चूर्णस्वरसपुष्पाणां सिद्धयः शीते भवतारिते दीयन्ते गन्धवृद्धयर्थम्। पलकल्कमिति तेन कर्पूरादिपतकलकः अवतारितेऽपि देयः ॥ ४८-५३ ॥
४२८
For Private and Personal Use Only