________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४१२
चरक-संहिता। वातव्याधिचिकिरिसतम् श्वदंष्ट्राखरसप्रस्थौ द्वौ समौ पयसा सह। षट्पलं शृङ्गवेरस्य गुड़स्याष्टपलन्तथा ॥ तैलप्रस्थं विपक्वं तैर्दद्यात् सर्वानिलार्त्तिषु। जोणे तैले च दुग्धेन पेयाकल्पः प्रशस्यते ॥ ५२ ॥ बलाशत गुडूच्याश्च पादं रास्नाष्टभागिकम् । जलाढकशते पक्तवा दशभागस्थिते रसे॥ दधिमस्त्विक्षुनि-स-शुक्तस्तलाढकं समैः । पचेत् साजपयोऽर्दा शैः कल्करेभिः पलोन्मितः ॥ शटीसरलदार्वेला-मञ्जिष्ठागुरुचन्दनः । पद्मकातिविषामुस्त-सूप्यपर्णीहरेणुभिः॥ यष्टासुरसव्याघ्र-नखर्षभकजीवकैः । पलाशरसकस्तूरी-नलिकाजातिकोषकैः॥ पृकाकुङ्कमशैलेय-जातीकटुफलाम्बुभिः। त्वक्चन्दनैलाकर्पूर-तुरुष्कश्रीनिवासकैः ॥ गङ्गाधरः-श्वदंष्ट्र त्यादि । श्वदंष्ट्रायाः स्वरसस्य द्वौ प्रस्थौ पयसा सह समो तेन पयसोऽपि द्वौ प्रस्थौ शृङ्गवेरस्य शुण्ठ्याः षट्पलं गुडस्याष्टपलं कल्कं दत्त्वा तैस्तैलप्रस्थं पक पातु दद्यात् । जीणं तैले पयसा पेयाकल्पः प्रशस्यते ॥५२॥
गङ्गाधरः-बलेत्यादि। बलायाः शतं पलानि तस्य पादं गुडच्याः पञ्च. विंशतिपलानि। रास्नाया अष्टमो भागो गुरुच्यास्तेन रास्नाया साढे द्वादशपलम् (बलायाः शतं पलानां गुडूच्याः पादं तेन चतुःशतपलं गुडूच्याः । रास्नाया अष्टमो भागो गुडूच्यास्तेन रास्ना पञ्चाशत्पलमिति कचित् पाठः) एकीकृत्य जलाढकशते षोड़शशतशरावजले पक्त्वा दशभागकमागे स्थिते षष्टात्तरशतशरावे रसे दध्यादिभिः समः प्रत्येकं तेलसमैः अजापयोद्धांशसहितैरष्टशरावान्वितैः पलोन्मितैरेभिः शट्यादिभिर्नागकेशरान्तः कल्कैस्तलादकं पचेदिति । सूप्यपर्णी माषपर्णी मुद्गपर्णी च । पलाशरसः पलाशवृक्षनिर्यासः । जातीकटोः फलं जातिफलं कटफलं लताकस्तूरी। अम्बु बालकं तुरुष्का
For Private and Personal Use Only