________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श अध्यायः] चिकित्सितस्थानम् । ३४११
पयसाष्टगुणेनैतत् सर्ववातविकारनुत् । संसृष्टे श्लेष्मणा चैतत् वाते शस्तं विशेषतः ॥४८॥ यवकोलकुलत्थानां श्रेयस्याः शुष्कमूलकात् । बिल्वाञ्चाञ्जलिमेककं द्रवैरम्लैर्विपाचयेत् ॥ तेन तैलं कषायेण फलाम्लैः कटभिस्तथा पिष्टैः सिद्धं महावातरातें शीते प्रयोजयेत् ॥ ४ ॥ सर्ववातविकाराणां तैलान्यन्यान्यतः शृणु। चतुःप्रयोगाण्यायुष्य-वान्यन्यतमानि च । रजःशुक्रप्रदोषनान्यपत्यजननानि च । निरत्ययानि सिद्धानि सर्व्वदोषहराणि च ॥५०॥ सहाचरतुलायास्तु रसे तैलाढकं पचेत् । मूलकल्काद् दशपलं पयो दत्त्वा चतुर्गणम् ॥ सिद्धेऽस्मिन् शर्कराचूर्णादष्टादशपलं भिषक् ।
विनोय दारुणेष्वेतद् वातव्याधिषु योजयेत् ॥ ५१॥ पिण्याकं जले चतुगुणे पक्त्वा सावयिखा तस्मिन् रसे भागानुक्तौ समाने तैलप्रस्थमष्टगुणेन पयसा विपाचयेत्, एतत् तैलं सर्ववातनुत् ॥४८॥ .
गङ्गाधरः-यवेत्यादि। यवादीनां प्रत्येकमञ्जलिमेकं कुड़वं द्रवरम्लः काजिकैरष्टगुणैर्चिपाचयेत् । पादावशेषेण तेन कषायेण चतुर्गुणेन तिन्तिड्यादिफलाम्लकटुत्रयकल्कैः सिद्धं तैलं महावातैरात शीते प्रयोजयेत् ॥४९॥ - गङ्गाधरः-सर्वत्यादि । चतुःप्रयोगाणि पानाभ्यङ्गानुवासननस्यप्रयोगाणि तैलान्यन्यानि शृणु ॥५०॥
गङ्गाधरः-सहाचरेत्यादि। सहाचरस्य झिण्यास्तुलां जलद्रोणे पत्त्वा पादशेषे रसे तलाढकं चतुर्गुणं पयो दत्त्वा सहाचरस्यैव मूलकल्क दशपलं दत्त्वा पचेत् । सिद्धे तैले पूते शकराया अष्टादशपलं प्रक्षिप्य स्थाप्यम् ॥५१॥ केचिट वदन्ति । पञ्चमूलीकषायेणैव जलस्य पूर्णमानत्वात् शास्त्रपरिभाषया पत्रकाको देय इत्युच्यते।
For Private and Personal Use Only