________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. चरक-संहिता। वानव्याधिचिकित्सितम् पादशेषरसैः पिष्टैर्जीवनीयैः सशर्करः। तथा काश्मयखज्जर-द्राक्षाबदरफल्गुभिः॥ सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत्। निरत्ययः प्रयोक्तव्यः पानाभ्यञ्जनवस्तिषु ॥४०॥ चित्रकं नागरं रानां पौष्करं पिप्पलीं शटीम् । पिष्टा विपाचयेत् सर्पिर्वातरोगहरं परम् ॥४१॥ बलाविल्वभृते क्षीरे घृतमण्ड विपाचयेत्। तस्य शुक्तिः प्रकुच्चो वा नस्य शीर्षगतेऽनिले ॥४२॥ ग्राम्यानूपोदकानाञ्च भित्वास्थीनि पचेजले । त स्नेहं दशमूलस्य कषायेण पुनः पचेत् ॥ जीवकर्षभकास्फोता-विदारीकपिकच्छुभिः। वातघ्नैर्जीवनीयैश्च कल्कैक्षिीरभागिकम् ॥
यवादीनां प्रत्येक प्रस्थोन्मितर्भागः सहाम्भसो द्रोणे पचेत् । पादशेषे रसे जीवनीयैः सशर्करैः पिष्टः कल्कैः पादिकैः सर्पिषः प्रस्थः सिद्ध एको योगः। तथा दशमूलादिकाथे काश्मर्यादिभिः कल्कैः पादिकैः समक्षीरैः सर्पिषः प्रस्थः सिद्धो द्वितीययोगः। कश्चित् तु तथा काश्मर्यादिभिः कल्कैः सक्षीरेश्चतुर्गुणक्षीरैः सिद्धो घृतप्रस्थ इति व्याचष्टे ॥४०॥
गङ्गाधरः-चित्रकमित्यादि। चित्रकादिकः कल्कः पादिकश्चतुर्गुणं जलम् ॥४१॥
गङ्गाधरः-बलेत्यादि । बलाविल्वाभ्यामष्टगुणं क्षीरं चतुर्गुणजले पक्वं शेष क्षीरं चतुर्गुणं घृतमण्डमकल्कं पाचयेत्। तस्य शुक्तिरर्द्धपलं प्रकुचः पलं वा नस्यम् ॥४२॥
गङ्गाधरः-ग्राम्येत्यादि। ग्राम्यादीनां जन्तूनामस्थीनि भित्त्वा जले पचेत् ततः स्थापयेत्, अथ स्थिरजलोपरि स्नेह उत्तिष्ठति तं मज्जस्नेहं दिक्षीर
.: चक्रपाणिः-घृतमण्डः घृतस्योपरितनो भागः । शुक्तिरर्डपलम् ॥ ४०-४२॥
For Private and Personal Use Only