________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८ मध्यायः ] . चिकित्सितस्थानम्। ३४०७
सस्नेहः सरुजं गात्रमालिप्य बहलं. भिषक् । एरण्डपत्रर्बध्नीयात् रात्रौ कल्यं विमोक्षयेत् ॥ क्षीराम्बुना ततः सिक्तं पुनश्चैवोपनाहितम् । मुञ्चेद् रात्रौ दिवा बद्धं चमभिस्त सलोमभिः ॥ ३७॥ फलानां तैलयोनोनामम्लपिष्टान् सुशीतलान् । प्रदेहानुपनाहांश्च गन्धर्वातहरैरपि। कुशरापायसैश्चैव कारयेत् स्नेहसंयुतः॥ ३८॥ रूवशुद्धानिला नामतः स्नेहान् प्रवक्ष्यति। विविधान् विविधव्याधि-प्रशमायामृतोपमान् ॥ ३९ ॥ द्रोणेऽम्भसः पचेद् भागान् दशमूलचतुष्पलान् ।
यवकोलकुलत्थानां भागैःप्रस्थोन्मितः सह ॥ दिभिर्बहलं धनमालिप्य रात्रावेरण्डपत्रैर्बधीयात्। कल्यं प्रातर्विमोक्षयेत् । उत्कारिकया यवादिकृतया सस्नेहया बहलालेप एकोऽपरो वेशवारेण सस्नेहेन, तृतीयः क्षीरमापतिलौदनैः सस्नेहः, चतुर्थ एरण्डादिभिः सः सस्नेहै रिति। एवं प्रातबन्धमोक्षणं कृत्वा क्षोराम्बुना सिक्तं धोतं कृखा पुनर्दिवा तथैव बहलमालिप्य सलोमभिश्चम्म भिर्बध्नीयादेवं दिवाबद्धं रात्रौ मुञ्चेत् ॥ ३७॥ ... गङ्गाधरः-फलानामित्यादि। तैलयोनीनां तिलसर्षपातसीत्यादीनां फलानि पिष्ट्वा सुशीतान् प्रदेहानुपलेपांश्च कारयेत्। वातहरैर्गन्धेरेलादिभिः स्नेहसंयुतैरपि प्रदेहानुपलेपांश्च कारयेत्। कशरया स्नेहयुतयाऽथवा पायसैः स्नेहसंयुतैः प्रदेहानुपलेपांश्च कारयेदिति ॥३८॥ ... गङ्गाधरः-रूक्षेत्यादि। ये शुद्धवातरोगार्ता रूक्षास्तेषां स्नेहान प्रवक्ष्यति ॥ ३९॥
गङ्गाधरः-द्रोणेऽम्भस इत्यादि। दशमूलस्य प्रत्येकं चतुष्पलान् भागान ४. चक्रपाणिः-बलाया इत्यादौ बला पृथक्शब्दः। बलादीनां रसाः साधनद्रव्याणि । भजशीर्षादयश्चत्वारः साध्याः। एवं द्वादश रसा भवन्ति । कल्यमिति प्रभाते ॥३३-३७॥
चक्रपाणि:-फलानां तैलयोनीनामिति तिलार स्यादीनाम् । प्रदेहानुपनाहांश्चेत्यस प्रदेहः सपनाहापेक्षया तनुले.पः । गन्धैरित्यगुर्वागत। रुक्षेत्यादौ शुद्धानिलात्ताः केवलवातपीडिताः ३३९
For Private and Personal Use Only