________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४०६
चरक-संहिता। [वातव्याधिचिकित्सितम् पत्रोत्वाथपयस्तल-द्रोण्यः स्युरवगाहने । खभ्यक्तानां प्रशस्यन्ते सेकाश्चानिलरोगिणाम् ॥ ३४॥ आनूपौदकमांसानि दशमूलं शतावरीम् । कुलत्थान बदरान् माषान् तिलान् रानाबलायवान् ॥ वसादध्यारनालाम्लैः सह कुम्भ्यां विपाचयेत् । नाडोस्वेदं प्रयुञ्जोत पिष्टैश्चाप्युपनाहनम् ॥ तैश्च सिद्धं घृतं तलमभ्यङ्गं पानमेव च ॥ ३५ ॥ मुस्त कुष्ठं तिलाः किएवं सुरालवणं नतम् । दधिक्षीरचतुःस्नेहः शस्त स्यादुपनाहनम् ॥ ३६॥ उत्कारिकावेशवार-क्षीरमापतिलौदनैः। एरण्डवीजगोधूम-यवकोलस्थिरादिभिः॥ .
साम्लैरम्लकाञ्जिकादियुक्तैघृ ततैलयुक्तैश्योपनाहान् कल्पयेत्। बहुवचनात् प्रत्येकश्चाजशीर्षादीनां पिशितैरुपनाहाः कार्या इति ॥३३॥
गङ्गाधरः-पत्रोत्काथेत्यादि। वातहरप्रसारण्यादिपत्राणामुत्काथा अवगाहने शस्ताः। पयसो द्रोणी तैलद्रोणी चावगाहने शस्ता। तथा वातहरस्नेहेना भ्यक्तगात्राणां सेका वातहरद्रव्यकाथं धारया सेचयेत् ॥३४॥. ..
गङ्गाधरः-आनूपेत्यादि। आनूपमांसादीनि यवान्तानि वसादिभिः द्रवैः सह कुम्भीमध्ये तन्मुखरोधेन पचेत्। तेन नाड़ीस्वेदं प्रयुञ्जीत । अथवा पिष्टैस्तैश्च तथा पत्वा उपनाहं प्रयुञ्जीत। एवं तैरान्पमांसादियवान्तः पादिकः कल्कैर्दध्यारनालाम्लैश्चतगुणैः स्नेहखाद वसया समया सिद्धं घृतं तलाश्चाभ्यहं पानश्च प्रयुञ्जीत ॥ ३५॥
गङ्गाधरः-मुस्तमित्यादि। मुस्तादिकं दध्यादिभिः पिष्ट्वा उपनाहनं शस्तं स्यात् ॥३६॥ ___गाधरः-उत्कारिकेत्यादि। वातरोगिणां सरुजं गात्रमुत्कारिका.
For Private and Personal Use Only