________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८ अध्यायः] चिकित्सितस्थानम्। ३४०५
स्रस्तं स्वं गमयेत् स्थान तथा खिन्नश्च नामयेत् । प्रत्येकं स्थानदूष्यादि-क्रियां सर्वत्र कारयेत् ॥ ३१ ॥ सर्पिस्तैलवसामज-पानाभ्यञ्जनवस्तयः। स्वेदः स्निग्धो निवातञ्च स्थान प्रावरणानि च ॥ रसाः पयांसि भोज्यानि खाद्वम्ललवणानि च। बृहणं यच्च तत् सर्व प्रशस्तं वातरोगिणाम् ॥ ३२॥ बलायाः पञ्चमूलस्य दशमूलस्य वा रसे। अजशीर्षाम्बुजानूप-क्रव्यादपिशितैः समम् ॥ साधयित्वा रसान् स्निग्धान् दध्यम्लव्योषसंस्कृतान् । भोजयेद् वातरोगात्तं तैय॑क्तलवणैनरम् ॥ एतैरेवोपनाहांश्च पिशितैः संप्रकल्पयेत् ।
घृततैलयुतैः साम्लैः खिन्नक्षुण्णैरनस्थिभिः ॥ ३३ ॥ हितम्। सस्तमित्यादि। सस्तमङ्गं खिन्न स्वं स्थानं गमयेत् ऊर्द्ध गतं तथा खिन्नं नामयेत् । प्रत्येकमित्यादि। सर्वत्र वातरोगे प्रत्येकं स्थानदृष्यादिक्रियां कारयेत् ॥ ३१॥
गङ्गाधरः-एवं सपिरादिचतुःस्नेहपानादयः। स्वेदादयः। स्वादम्लादिभोजनानि ॥३२॥
गङ्गाधरः-बलाया इत्यादि। बलाया रसे पञ्चमूलस्य महतो रसे वा दशमूलस्य रसे वा छागशीर्ष साधयिखा रसं कृलाम्बुजपिशितं वा तस्मिं स्तस्मिन् रसे रसं साधयिखा आनूपमांसं वा तस्मिंस्तस्मिन् रसे पक्त्वा रसं साधयिखा क्रव्यादमांसं वा तस्मिंस्तस्मिन् रसे पत्वा रसं साधयिता दध्यमलव्योषं दत्त्वा वातरोगात तेन तेन रसेन व्यक्तलवणेन भोजयेत् । एतैरेवाजशीर्षादिपिशितैरनस्थिभिः खिन्नक्षण्णः खिन्नं कृता पेषितैः अनुकविशेषचिकित्साग्रहणार्थमाह-प्रत्येकमित्यादि। स्थानं पक्वाशयादि। दूष्यं रसरकादि । भाविग्रहणात् आवरणग्रहणम् । स्थानदूष्यापेक्षः क्रियाविशेषस्तु कोष्ठस्थ इत्यनेनैवोक्तः ॥ ३०॥३१॥ चक्रपाणिः-सर्व विकारशमनं चिकित्सितमाह-सर्पिस्तैलमित्यादि ॥३२॥
४२७
For Private and Personal Use Only