________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वातव्याधिचिकित्सित
३४०४
चरक-संहिता। वातव्याधिचिकित्सित बाहुशीषंगते नस्यं पानञ्चौत्तरभक्तिकम्।। वस्तिकर्म त्वधो नाभेः शस्यते चावपीड़कः ॥ २६ ॥ अदिते नावनं मूद्धि तैलं तर्पणमेव च।। नाड़ीस्वेदोपनाहाश्चाप्यानूपपिशितहिताः॥ स्वेदनं स्नेहसंयुक्त पक्षाघाते विरेचनम् । अन्तरा कण्डराङ्गल्योः शिरोवस्त्यग्निकर्म च ॥ गृध्रसीषु प्रयुञ्जोत खल्ल्यां तूष्णोपनाहनम् । पायसैः कृशरैश्चैव शस्तैस्तैलघृतान्वितैः ॥ ३० ॥ व्यादितास्ये हनु खिन्नमङ्गष्ठाभ्यां प्रपीड़येत् । प्रदेशिनीभ्यां चोन्नाम्य चिवुकोन्नमनं हितम् ॥
सङ्कचिते वाते माषसैन्धवसाधितं तलमभ्यङ्गः। बाहुशीषगते वाते नस्यम् औत्तरभक्तिक स्नेहपानश्च । नाभेरधो वाते वस्तिकर्म शस्यतेऽचपीडश्च ॥२९॥
गङ्गाधरः-अदिते वाते नावनं नस्यं मूद्धि तैलं तर्पणश्च। नाड़ीत्यादि । अदिते वाते नाड़ीस्वेदादय आनूपपिशित हिताः। एवं पक्षाघाते स्नेहसंयुक्तं स्वेदनं विरेचनश्च। गृध्रसीषु कण्डराकुल्योरन्तरा शिरोवस्तिरनिकम्मे च यथायोग्यं प्रयुञ्जीत । खल्ल्यान्तूष्णोपनाहनं तैलघृतान्वितैः पायसैः कुशरः शस्तैः प्रयुञ्जीत ॥३०॥
गङ्गाधरः-व्यादितास्य इत्यादि। व्यादितास्ये हनुस्तम्भे खिन्नं हनु प्रदेशिनीभ्यामङ्गुलीभ्यां चिवुकमुन्नाम्य प्रपीड़येत् । इत्येवं चिकोत्रमनं
उपनाहनञ्च वातहरद्रव्यैरेव कर्तव्यम्। नस्ये पाने च उक्तभाषसैन्धवसाधितमेव तैलम्। भस च माषस्य काथः सैन्धवस्य कल्कः । २८ ॥ २९ ॥
चक्रपाणि:-अर्दितादिचिकित्सामाह-अहित इत्यादि। तर्पणमित्यादि नावनविशेषणम् । अन्तराकण्डराङ्गुल्योरिति कण्डराङ्गुल्योर्मध्ये सिराव्यधनं कर्त्तव्यम्। गृध्रसीष्विति बहुवचनं व्याधिमेदसया गदितम्। ध्यात्ताननमिति विवृतास्यम्। प्रदेशिनी भङ्गुष्ठान्तराङ्गुली।
For Private and Personal Use Only