________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८ अध्यायः]
चिकित्सितस्थानम् । ३४०३ वाह्याभ्यन्तरतः स्नेहरस्थिमज्जगतं जयेत् । हर्षोऽनपानं शुक्रस्थे बलशुक्रकरं हितम् ॥ विबद्धमार्ग दृष्ट्रा च शुक्र दद्याद विरेचनम् । विरिक्तप्रतिभुक्तस्य पूर्वोक्तां कारयेत् क्रियाम् ॥ २८॥ गर्भे शुष्के तु वातेन बालानाञ्चापि शुष्यताम् । सितामधुककाश्मय्यै हितमुत्थापने पयः॥ हृदि प्रकुपिते सिद्धमंशुमत्या पयो हितम् । मत्स्यान् नाभिप्रदेशस्थे सिद्धान् बिल्वशलाटुभिः॥ वायुना वेष्टामाने तु गाने स्यादुपनाहनम् । तैलं सङ्कचितेऽभ्यङ्गो माषसैन्धवसाधितम् ॥
रक्तस्थे शीतप्रदेहादयः। मांसभेदःस्थे विरेकादयः। वाह्याभ्यन्तरतः स्नेहः अभ्यङ्गपानरस्थिमज्जगतं वातं जयेत् । हर्ष इत्यादि। शुक्रस्थे वाते हर्षः स्त्रीभिरालापादिना बलकरं शुक्रकरमनपानं हितम्। विवद्धमार्ग शुक्र दृष्ट्वा विरेचनं दद्यात् । विरिक्तस्य प्रतिभुक्तस्य पूर्वोक्तां हर्षबलशुक्रकरान पानक्रियां कारयेत् ॥२८॥
गङ्गाधरः-वातेन गर्भे शुष्के शुष्यतां बालानाश्च शुष्कगभशुष्यद्बालानामुत्थापने पोषणे सितादिभियुक्तं पयो हितम्। हृदीत्यादि। हृदि प्रकुपिते वातेऽशुमत्या शालपा सिद्धं पयो हितम् । नाभिप्रदेशस्थे बिल्वशलाटुभिः सिद्धान् मत्स्यान् दद्यात्। वायुना वेष्टयमाने गात्रे उपनाहनं स्यात् ।
उदावर्त्तनुत् कर्म विमर्मीये तं तैलशीतज्वरनाशनोक्तमित्यादिनोक्तं ज्ञेयम्। स्वेदेत्यादि त्वगगतानिलचिकित्सितम्। हर्षों मनोहर्षणम् । विरेचनानन्तरं प्रतिभोजिनः विरिक्तप्रतिभुक्तस्य । पूर्वोक्तामिति शुक्रजननहर्षिणी क्रियाम्। गर्भ इति सितादिभिः सिद्धं पयो हितम् । अंशुमती शालपर्णी। मत्स्या इति नाभिप्रदेशे कुपिते वाते बिल्वशलाटुभिः सिद्धा देयाः । नाभिप्रदेशे वातस्य कोपोऽनुक्तोऽपि तत्रभवशूलादिभिरिव ज्ञेयम्। वैष्टयमान इति अवमोटयमाने।
For Private and Personal Use Only