________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[वातव्याधिचिकित्सितम्
३४०२
चरक संहिता। वातव्याधिचिकित्सितम् संशुद्धस्योस्थिते चाग्नौ स्नेहस्वेदो पुनर्हितो। खाद्वम्ललवणः स्निग्धैराहारैः सततं पुनः ।। नावनईमपानश्च सर्वानेवोपपादयेत् । इति सामान्यतः प्रोक्तं वातरोगचिकित्सितम् ॥ २७ ॥ विशेषतस्तु कोष्ठस्थे वाते क्षीरं ® पिबेन्नरः । पाचनीयैरसैयक्तैरन्यैर्वा पाचयेन्मलान् ॥ गुदपक्वाशयस्थे तु कम्मोदावर्त्तनुद्धितम् ।
आमाशयस्थे शुद्धस्य यथादोषहरी क्रिया ॥ सर्वाङ्गकुपितेऽभ्यङ्गो वस्तयः सानुवासनाः। स्वेदाभ्यगावगाहाश्च हृद्य चान्नं त्वगाश्रिते ॥ शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् । विरेको मांसमेदःस्थे निरूहाः शमनानि च ॥ भॊजनैस्तं नरमुपाचरेत् । संशुद्धस्येत्यादि। एवं संशुद्धस्य वातरोगिणोऽनौ चोत्थिते पुनः स्नेहस्वेदौ हितौ स्वाद्वम्लाद्याहारै वनधूमपानस्ततः पुनः स सर्वानेव वातरोगानुपपादयेत्। इति सामान्यतो वातरोगचिकित्सितमुक्तम् ॥ २७॥ ___ गङ्गाधरः-विशेषत आह-विशेषतस्वित्यादि। विशेषतः कोष्ठगते वाते नरः क्षीरं पिबेत् । पाचनीयरसैर्युक्तैर्वान्यैर्मलान् पाचयेत्। गुदत्यादि । गुदस्थे पकाशयस्थे च। आमाशयस्ये शुद्धस्य विरेचनेन दोपहरी क्रिया। सर्वाङ्गकुपितेऽभ्यङ्गादयः। खगाश्रिते वाते स्वेदादयः। शीता इत्यादि। पाचनैरित्यस्य दीपनैरिति विशेषणं कृतम्। भोज्यैर्वा तद्युतैरिति पाचनदीपनसंयुक्तैर्भोज्यैः । उत्थिते चाग्नौ इति दीप्ते वह्नौ ॥ २७ ॥
चक्रपाणिः-स्थानविशेषेण क्रियाविशेषमाह-विशेषतस्त्वित्यादिना अधो नाभेः शस्यते चावपीड़क इत्यन्तेन। क्षारं यवक्षारं किंवा क्षारमिति ग्रहण्यादिनिर्दिष्टं दीपनक्षारम् ।
... * भारमिति चक्रसम्मतः पाठ।
For Private and Personal Use Only