________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श अध्यायः ]
२८श अध्यायः ] चिकित्सितस्थानम्। ३४०१
यद्यनेन सदोषत्वात् कर्मणा न प्रशाम्यति । मृदुभिः स्नेहसंयुक्तभेषजैस्तं विशोधयेत् ॥ २५ ॥ घृतं तित्वकसिद्धं वा सातलासिद्धमेव वा। पयस्यरण्डतैलं वा पिबेद् दोषहरं शिवम् ॥ स्निग्धाम्ललवणोष्णादाराहारैर्हि मलश्चितः। स्रोतो बध्नाति तं रुद्धा तस्मात् तमनुलोमयेत् ॥ २६ ॥ दुर्बलो यो विरेच्यः स्यात् तं निरूहैरुपाचरेत् । पाचनैर्दीपनीयैर्वा भोजनैस्तदयुतैर्नरम् ॥ गङ्गाधरः- दीत्यादि। अनेन निरुक्तेन कर्मणा यदि सदोषखादवशिष्टदोषवत्त्वाद वातामयो न प्रशाम्यति, तदा स्नेहयुक्तैम दुभिर्भेषजैस्तं विशोधयेत् विरेचनेन ॥२५॥
गङ्गाधरः-स्नेहमृदुविरेचनमाह-घृतमित्यादि। तिल्वकं लोधं तत्सिद्धं घृतमथवा सातलया सप्तलया सिद्धं घृतम् अथवा पयस्येरण्डतैलं दोषहरं पिबेत्। एतेन यत् स्यात् तदाह-स्निग्धेत्यादि। हि यस्मात् स्निग्धाचाहारैश्चितो मलस्तं मलं रुद्धा स्रोतो बध्नाति तस्मात् तं मलमनुलोमयेद् विरेचनेनानेनेति ॥ २६॥ ___ गङ्गाधरः-अविरेच्यस्य विधिमाह-दुर्बल इत्यादि। यो हि विरेच्यो दुर्बलस्तथा यश्चाविरेच्यस्तं निरूहैरुपाचरेत्। अथवा पाचनादिभिर्युतै
चक्रपाणिः-ययनेन सदोषत्वादित्यादि। अव केवलो वा निरुपस्तम्भः वायुः चिकित्स्यत्वेनाधिकृतः। स दोषमुपपन्नः कर्मणा न प्रशाम्यति, तेनोक्तस्य कर्मणोऽपि तलाशुद्धिः मलजनकत्वात् । वक्ष्यति हि स्निग्धाम्ललवणोष्णाद्य रहारैर्हि मलश्चतः' इति, किंवा सदोषत्वादित्यनेन उत्तरकालीनं वायोः संशमनमुच्यते। असंसृष्टत्वञ्च यदुक्तं तदुपक्रमारम्भकाले ज्ञेयम् । सदोषत्वञ्च स्नेहप्रयोगेणानुपशये ज्ञेयम्। संशोधनकरणे च हेतुः शमनमेवोत्तरकालीनं कुतो भवतीत्याहस्निग्धेत्यादि ॥ २५॥२६॥
चक्रपाणिः-दुर्बलो योऽविरेच्य इति दुर्बलत्वप्रकर्षण अविरेच्य इत्यर्थः। अत्यर्थदुर्बलतायां विधिमाह-पाचनैर्दीपनीयैरिति । यथा पाचनैः तथा दीपनैः, तथा अनास्थाप्यास्त्वतिस्निग्ध इत्यादौ अपि दुबलः पठितः। पारनं किञ्चिदीपनं यथा पटोलम्, दीपनं किञ्चित् पाचनं यथा त्रिफला, उकं हि सुश्रते-'विफला कफपित्तान-मेहकुष्ठविनाशिनी। चक्षण्या. दीपनी चेति। तथा
For Private and Personal Use Only