________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४००
चरक-संहिता। वातव्याधिचिकित्सितम् कृशरापायसैः साम्ल-लवणैः सानुवासनैः । नावनस्तर्पणश्चान्यैः सुस्निग्धं स्वेदयेत् तु तम् ॥ खभ्यक्तं स्नेहसंयुक्त डीप्रस्तरसङ्करः। तथान्यविविधैर्योगर्यथायोगमुपाचरेत् ॥ २३ ॥ स्नेहाक्तं खिन्नमगन्तु वक्र स्तब्धमथापि वा। शनैर्नमयितं शक्यं यथेष्टं शुष्कदारुवत् ॥ हर्षतोदरुगायास-शोथस्तम्भग्रहादयः। खिन्नस्याशु प्रशाम्यन्ति माईवञ्चोपजायते ॥ स्नेहश्व धातून संशुष्कान् पुष्णात्याशु प्रयोजितः । बलमग्निबलं पुष्टिं प्राणांश्चाप्यतिवर्द्धयेत् ॥ असंस्कृतं पुनः स्नेहैः स्वेदैश्चाप्युपपादयेत् ।
तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः ॥ २४॥ कुशरादिभिश्च स्नेहयेत् । ततः सुस्निग्धं तं स्वभ्यक्तं स्नेहेन नाहीस्वेदादिभिः स्नेहसंयुक्तैः स्वेदयेत् । तथा यथायोगं विविधैरन्यैर्योगेश्वोपाचरेत् ॥२३॥ ___ गङ्गाधरः-एवं स्नेहपूर्वस्वेदफलमाह-स्नेहाक्तमित्यादि । स्नेहाक्तं खिम वकं वा स्तब्धं वा शनैर्यथेष्टं यथाभिमतं नमयितु शक्यं स्यात् शुष्कदारुवत् । हर्षादयश्च स्विन्नस्याशु प्रशाम्यन्ति माईवञ्च जायते। स्नेहश्च प्रयोजितः शुष्कान् धातूनाशु पुष्णाति । बलादिकं वर्द्धयेत् । स्नेदैः स्वेदैश्चाप्यसंस्कृतं नरं पुनः स्नेहः स्वेदेश्वोपपादयेत् । तथा सति स्नेहमृदौ कोष्ठे सति अनिलामया न तिष्ठन्ति ॥२४॥ श्वास्येति विश्राम्य स्नेहयेदिति तर्पणैः। पान.रत्यत्र यावदित्यादि अनुवर्तते। भन्थैरिति कुटीमूमिस्वेदादिभिः। यथायोगमिति सर्वथा स्नेहपूर्वकस्वेदम् ॥ २३ ॥
चक्रपाणिः-स्नेहपूर्वकस्वेदगुणमाह-स्नेहाई स्विन्नमित्यादि। स्वेदाध्याये स्नेहपूर्वप्रयुक्तन स्वेदेनेत्युक्तोऽपि अयं स्नेहपूर्वक: स्वेदगुणः पुनः प्रकरणागतत्वादुच्यते। आशुप्रयोजित इत्यस पुष्णातीत्यनेन सम्बध्यते । अनिलामयाः न तिष्ठन्ति न स्थायिनो भवन्तीत्यर्थः ॥२४॥ ..
For Private and Personal Use Only