________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८ अध्यायः ]
चिकित्सितस्थानम् |
लिङ्गं पित्तावृते दाहस्तृष्णा शूलं भ्रमः क्रमः । कटुम्ललवणोष्णैश्च विदाहः शोतका मिता || शैत्यगौरवशूलानि कटादुपशयोऽधिकम् । लङ्घनायासरुक्षोष्ण कामता च कफावृते ॥ रक्तावृते सदाहार्त्तिस्त्वङ्मांसान्तरयोभ्रंशम् । भवेत् सरागः श्वयथुर्जायन्ते मण्डलानि च ॥ कठिनाश्च विवर्णाश्च पिडकाः श्वयथुस्तथा । हर्षः पिपीलिकानाञ्च संसार इव मांसगे ॥ चलः स्निग्धो मृदुः शीतः शोफोऽङ्गेष्वरुचिस्तथा । श्राव्यवात इति ज्ञेयः स कृच्छ्रो मेदसावृतः ॥ पित्तकफौ समुद्धय तत्र तत्र माग आक्षिपन् गदान् करोति । आवृतमागेखाद् रसादींश्चोपशोषयेदिति ॥ २० ॥
1
1
गङ्गाधरः - येन येनावृतः सन् यद् यल्लिङ्गं करोति तदाह । लिङ्गमित्यादि । पित्तावृते वायौ लिङ्गं दाहादि । तत्र कटादिभिः सेविते विदाहः शीतकामिता च स्यात् । शैत्येत्यादि । कफाटते वाय गत्यादीनि स्युः कटादुपशयोऽधिकं भवति । लङ्घनादिकामता च स्यात् । रक्तात इत्यादि । रक्तादृते वायौ खङमांसयोरन्तरे भृशं सदाहार्त्तिः सरागः श्वयथुभवेत् । मण्डलानि च जायन्ते मसादिधातुगतवातकाय्र्याण्याह - कठिना इत्यादि । मांसगे वायो कठिनपिड़कादि स्यात् । पिपीलिकानां संसारः संसरणमिव हर्षः स्यात् । चल इत्यादि । मेदसावृतो वातश्चल इत्यादिलक्षण आढ्यवात इति ज्ञेयः, स कृच्छ्रत्रिष्वनि दोषेषु वायुरेव उक्तन्यायेन प्रधानम्, अतः कुपितः पित्तकफौ समुदीर्य ताभ्यामावृतमार्गोऽपि तख तत्र प्रदेशे गदान् करोति । तथा रसादींश्च तत्र तत्र क्षिपन् संशोषयेत् ॥ १९ ॥ २० ॥
चक्रपाणिः - आवरणकृतं वातकोपं दर्शयित्वा भावरणविशेषकृतं लिङ्गमाह - पित्तावृत इत्यादि । कट्टा पशय इति कष्णादिकफविपरीतैरुपशयः । अधिकमिति । मांसगे इति मांसावृते । मांसगतस्य रक्तादिगतस्य च वातस्य लक्षणमुच्यते । आन्यवात इति आयुर्वेदसंज्ञा मेदसा आवृत
४२६
For Private and Personal Use Only
३३६७