________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६८
चरक-संहिता। वातव्याधिचिकित्सितम् स्पर्शमस्थ्यावृते तूष्णं पीड़नञ्चाभिनन्दति । संभज्यते सीदति च सूचीभिरिव तुद्यते ॥ मज्जावृते विनमति जृम्भते परिचेष्टते। शूलञ्च पीड्यमाने च पाणिभ्यां लभते सुखम् ॥ शुक्रावेगोऽतिवेगो वा निष्फलत्वञ्च शुक्रगे। भुक्ते कुतौ रुजा जीणे शाम्यन्त्यन्नावृतेऽनिले ॥ मूत्राप्रवृत्तिराध्मानं वस्तौ मूत्रावृतेऽनिले। वर्चसोऽतिविबन्धोऽधः स्वे स्थाने परिकून्तति ॥ बजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः। चिरात् पीड़ितमन्नेन दुःखं शुष्कं शकृत् सृजेत् ॥ . श्रोणिवङ्क्षणपृष्ठेषु रुगविलोमश्च मारुतः।
अस्वस्थं हृदयञ्चैव वर्चसा त्वावृतेऽनिले ॥ २१॥ साध्यः । स्पर्शमित्यादि। अस्थाटते वाते स्पर्शन्तूष्णमभिनन्दति पीड़नश्चाभिनन्दति संभज्यतेऽङ्गमिति शेषः। मज्जात इत्यादि। मज्जाटते वायो नरो विनमतीत्यादि। शुलञ्च स्यात् । तत्र पाणिभ्यां पीड्यमाने देहे सुखं लभते । शुक्रावेग इत्यादि। शुक्रगे वायौ शुक्रस्यावेगोऽतिवेगो वा निष्फललञ्च गर्भ जननफलरहितत्वं स्यात् । भुक्त इत्यादि। अन्नाटतेऽनिले भुक्तेऽन्ने कुक्षौ रुजा जीणऽन्ने शाम्यन्ति। मूत्रेत्यादि। मूत्रावृतेऽनिले. मूत्रस्याप्रत्तिर्वस्तो चाध्मानं स्यात्। वर्च इत्यादि। वर्चसादृतेऽनिले वर्चसोऽधोऽतिविबन्धः स्वे स्थाने विबन्धस्थाने परिकृन्तति। भुक्तेऽन्ने सत्याशु स्नेहो जरामाशु व्रजति भुक्तेऽन्ने चानाने पुरीषम् । अन्नेन पीड़ितं शुष्कं शकृत् नरश्चिराद दुःखं यथा स्यात्तथा सृजेत्। श्रोण्यादिषु रुक् मारुतश्च विलोमो नानुलोमः। हृदयश्चास्वस्थमिति ॥२१॥ वातस्य । स्वस्थान इति पकाशये। परिकृन्तति परिकर्तिकां जनयति । साध्यासाध्यविभागा इति
For Private and Personal Use Only