________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६६
चरक-संहिता। वातव्याधिचिकित्सितम् वाताद वातकफात् तन्द्रा-गौरवारोचकान्विता। खल्ली तु पादजङोरु-करमूलावमोटनो (नात् ) ॥१८॥ स्थाननामानुरूपः स्वैर्लिङ्गः शेषान् विनिदिशेत् । सवेष्षेतेषु संसर्ग पित्तादारुपलक्षयेत् ॥ १६ ॥ वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च। वातपित्तकफा देहे सर्वस्रोतोऽनुगामिनः ॥ वायुरेव हि सूक्ष्मत्वाद् वायोस्तत्राप्युदीरणः । कुपितस्तो समुद्भूय तत्र तत्राक्षिपन् गदान् ।
करोत्यावृतमार्गत्वात् रसादोंश्चोपशोषयेत् ॥ २० ॥ गृध्रसी वातात् केवलात्। वातकफात् तु तन्द्रादियुक्ता। इति गृध्रसीलक्षणम् । खल्लीत्यादि। पादमूलाधवमोटिनी खल्लीत्युच्यते ॥१८॥ ___ गङ्गाधरः-स्थाननामानुरूपैः स्वैलिङ्गः शेषान् उक्तादितादिभ्योऽन्यान् वातरोगान् विनिर्दिशेत् । इति ॥१९॥
गङ्गाधरः-अथ वायोरावरणजरोगानाह-वायोरित्यादि। धातुक्षयान वायोः कोपे मार्गस्य वायोरावरणेन च कोपो भवति, वातपित्तकफा देहे सर्वस्रोतोऽनुगामिनो हेतवः स्युः। कथं तहिं वायोः कोपे वातादयः सर्व स्रोतोऽनुगामिनः स्युरित्यत आह-वायुरेव हीत्यादि। हि यस्मादेको वायुरपरस्य वायोर्धातुक्षयात् मागोवरणेन को सूक्ष्मलादुदीरणः प्रेरकः। तो कटिपृष्ठोरुजानुजङ्खापदं गृह्णाति, सा गृध्रसी वातात्। वातकफात् सा पूर्वोक्तलक्षणा सती तन्द्र त्यभिधेया भवति । एवं गृध्रसीद्वयं यद् द्वे गृध्रस्यौ वातात् वातकफाद् द्वे इत्यनेनोक्ते अपि विवृते भवतः ॥ १७ ॥ १४॥ __चक्रपाणिः-अनुक्तानां परिग्रहार्थमाह-स्थाननामे यादि। शेषान् अनुरूपैलिङ्गः भेदशूलादिभिः निहिशेदिति ज्ञेयम् । केचित् स्थानानामनुरूपैरिति पठन्ति। तल नखभेदस्थानानुरूपश्च लिङ्ग नखस्फुटनरूपं भवति। एवं चापरवातविकारेष्वपि महारोगोक्तेषु स्थानानुरूपं लिङ्गमनुसतव्यम् । वातस्य पित्तादिसंसर्ग ज्ञापयन्नाह-सर्वेष्वित्यादि। पित्ताच रिति पित्तकफरकादिभिः। अथावृतस्य वायोः कथं कुपितत्वं भवति, भवतु मार्गरोधात् वातकोपः। भावरकेग तु पित्तेन कफेन वातकोपनस्य कथं सम्भवो भवतीत्याह-वातपित्तेत्यादि। तृतीयमेलके वायोः प्राधान्यमाह-- सूक्ष्मत्वादिति। सूक्ष्ममार्गानुसारितया प्रेरकत्वात्। तस्मात्
For Private and Personal Use Only