________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८श अध्याथः]
चिकित्सितस्थानम् ।
३३६५ खस्थः स्यादर्दितादीनां मुहवेंगे गतेऽगते । पीड्यते पोड़नैस्तैस्तैर्भिषगेतान् विवज्जयेत् ॥ १६ ॥ हत्वैकं मारुतः पदं दक्षिणं वाममेव वा। करोति चेष्टाविरतिं रुजं वास्तम्भमेव च ॥ गृहीत्वाद्धं शरीरस्य सिराः स्नायूविशोष्य च। पादं सङ्कोचयत्येकं हस्तं वा तोदशलकृत् ॥ एकाङ्गरोगं तं विद्यात् पवनात् कुशलो भिषक् । सर्वाङ्गरोगं तद्वच्च सर्वदेहानुगेऽनिले ॥ १७॥ स्फिक्पूर्वा कटिपृष्ठोरु-जानुजङ्घापदं क्रमात् । गृध्रसी स्तम्भरुक्तोदै ह्राति स्पन्दते मुहुः ॥ गङ्गाधरः-अर्दितादीनामेतदन्तानां मुहुर्वगे गतेऽतीते सति स्वस्थ आपाततः स्यात् । अगते वेगे पीड्यते ॥१६॥
गङ्गाधरः-हत्वेत्यादि। कुपितो मारुत एक दक्षिणं वामं वा पक्षं हवा चेष्टाविरतिप्रभृतिं करोति। इति पक्षबधः। गृहीत्वेत्यादि । वायुः शरीरस्याद्ध गृहीला सिरास्नायूवि शोष्य तोदशूलकृत् सन् पादमेकमेकं हस्तं वा सङ्कोचयति, तमेकाङ्गरोगं विद्यात्। सङ्गिं शरीरस्य गृहीला सिरास्नाय. विशोष्य तोदशलकृद् वायुः पादौ हस्तौ वा सङ्कोचयति तं सर्वाङ्गगं रोगं विद्यादिति ॥१७॥ ___ गङ्गाधरः-स्फिगित्यादि। स्फिकपूर्वा गृध्रसी पूर्व स्फिचं स्तम्भ रुक्तोदर हीखा क्रमात् कयादीनि स्तम्भरुकतोदेहाति सुहुश्च स्पन्दते, सा कथनम्। पाणिपादशिर इत्यादि दण्डकलक्षणम् । अहितादीनां दण्डकान्तानां समान रूपमाहस्वस्थः स्यादित्यादि। अहितहनुस्तम्भादिषु मुहुर्मुहुर्वेगित्वं दृश्यते, तदहितान्तर्गतमेव ज्ञयम् ॥ १५॥१६॥
चक्रपाणिः-हत्वैकमित्यादि पक्षबधलक्षणम्। गृहीत्वामित्यादि एकाङ्गलक्षणम् । सर्वाङ्ग सर्बदेहजमिति सर्वाङ्गलक्षणम्। स्फिकपूर्वोत्यादि प्रथमं स्फिक स्तम्भरुक्तोदै हाति, पश्चात्
For Private and Personal Use Only