________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६४
चरक-संहिता। वातव्याधिचिकिस्सितम दन्तानां दंशनं जृम्भा लालास्रावश्च वाग्ग्रहः । जातवेगो निहन्त्येष वकल्यं वा प्रयच्छति ॥ १३॥ हनुमूले स्थितो बन्धात् उसयत्यनिलो हनू । विवृतास्यत्वमथवा कुय्योत् संवृतमाननम् ॥ हनुग्रहश्च संस्तभ्य हनू संवृतवक्तताम् ॥ १४ ॥ ® मुहुर्महुश्चाक्षिपति गात्राएयाक्षेपकोऽनिलः । पाणिपादौ च संशोप्य ससिराः स्नायुकण्डराः॥ पाणिपादशिरःपृष्ठ-श्रोणीः स्तभ्नाति मारुतः।
दण्डवत् स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः ॥ १५ ॥ मन्ये द्वे स्तब्धे स्यातां ग्रीवा च मृधते । दन्तदंशनादि स्यात्। एष जातवेग एव निहन्ति नरम्, नरस्य वैकल्यं वा प्रयच्छति । वहिरायामः ॥१३॥
गङ्गाधरः-हनुस्तम्भमाह-हनुमूलस्थितोऽनिलो हनुबन्धात् द्वे हनू स्रसयति। ततो विवृतास्यतां कुर्य्यादथवा संवृतमाननं कुर्यात्। हनू संस्तभ्य संसृतवक्ततां हनुग्रहश्च कुर्यादिति ॥१४॥
गङ्गाधरः-आक्षेपकमाह--मुहुर्मु हुरित्यादि। योऽनिलो गात्राणि मुहुम्म हुराक्षिपति गजारूढस्येव गात्राणि चालयति सोऽनिल आक्षेपकः । तस्यावस्थाविशेषं दण्डकमाह-पाणीत्यादि। पाणी पादौ च संशोष्य ससिराः स्नायुकण्डराश्च संशोष्य मारुतः पाणिपादादीनि स्तभ्नाति । दण्डवदिति दण्डवत् स्तब्धगात्रस्य दण्डको नाम स आक्षेपकोऽनुपक्रमोऽसाध्यः ॥१५॥
चक्रपाणिः-हनुस्तम्भसङ्कोचयोलक्षणं हनुमूले स्थित इत्यादि। नसयतीति विवर्तयति । विवृतास्यत्वमथवाशब्देन, संवृतवक्ततां पाक्षिकीञ्चापेक्षते। संस्तभ्येति निश्चलं कृत्वा संवृतमुखतां करोति । एतद् द्वयमपि हनुस्तम्भे एव ॥ १४ ॥
चक्रपाणिः-मुहुरित्यादि आक्षेपलक्षणम् , पाणिपादञ्च संशोध्येत्यादि आक्षेपकसम्प्राप्ति
* हनुमूल स्थितो वायुः करोति बहुकष्टदम्। इत्यधिक पाठः क्वचिद् दृश्यते।
For Private and Personal Use Only